आश्रमवासिकपर्व

अध्यायः १७

Asramavasika Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ।। 1 ।।

तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम्।। 2 ।।

वैशम्पायन उवाच।

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव।
नारीणां च नराणां च निःस्वनः सुमहानभूत्।।

स राजा राजमार्गेण नृनारीसंकुलेन च।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः।।

स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात्।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः।।

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा।।

ककृपं निवर्तयामास युयुत्सुं च महारथम्।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे।।

निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह।।

सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ।।
अहं राजानमन्विष्ये भवती विनिवर्तताम्।।

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः।।

इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह।।

कुन्त्युवाच।

सहदेवे महाराज माऽप्रसादं कृथाः क्वचित्।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा।।

कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम्।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा।।

आयसं हृदयं नूनं मन्दाया मम पुत्रक।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते।।

एवं गते तु किं शक्यं मया कर्तुमरिंदम।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः।।

तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन।।

द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह।।

समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता।
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी।।

वैशम्पायन उवाच।

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह।।

मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः।
उवाच मतारं दीनश्चिन्ताशोकपरायणः।।

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि।।

व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने।
विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि।।

निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्।।

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि।।

अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे।।

इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्।।

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः।।

किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि।।

वनाच्चापि किमानीता भवत्या बालका वयम्।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा।।

प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम्।।

इति सा निश्चितैवाशु वनवासकृततक्षणा।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः।।

द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा।
वनवासाय गच्छन्तीं रुदती भद्रया सह।।

सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया।।

अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि सप्तदशोऽध्यायः।। 17 ।।