आरण्यकपर्व

अध्यायः ८६

Aranyaka Parva (Sanskrit) · Adhyaya 86
अक्षर का आकार

धौम्य उवाच।

दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत।
विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै ।।

यस्यामाख्यायते पुण्या दिशि गोदावरी नदी।
बह्वारामा बहुजला तापसाचरिता शिवा ।।

वेणा भीमरथी चैव नद्यौ पापभयापहे।
मृगद्विजसमाकीर्णे तापसालयभूषिते ।।

राजर्षेस्तस् च सरिन्नृगस्य भरतर्षभ।
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ।।

अपि चात्र महायोगी मार्कण्डेयो महायशाः।
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ।।

नृगस् यजमानस्य प्रत्यक्षमिति नः श्रुतम्।
`मरुतः परिवेष्टारः सदस्याश्च दिवौकसः'।।

पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे।
उद्धृतं भूतलस्थं वावायुना समुदीरितम्।
पयोष्ण्या हरते तोयं पापमामरणान्तिकम् ।।

स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः।
स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् ।।

एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः।
पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम ।।

माठरस्य वनं पुण्यं बहुमूलफलं शिवम्।
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ।।

प्रवेण्युत्तरपार्स्वे तु पुण्ये कण्वाश्रमे तथा।
तापसानामरण्यानि कीर्तितानि यथाश्रुति ।।

वेदी शूर्पारके तात जमदग्नेर्महात्मनः।
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ।।

अशोकतीर्थं तत्रैव कौन्ते य बहुलाश्रमम्।
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ।।

कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ।
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु ।।

यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे।
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ।।

शीततोयो बहुजलः पुण्यस्तात शिवश्च सः।
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ।।

तत्र वृक्षतृणाद्यैश्च संपन्नः फलमूलवान्।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसहे गिरौ ।।

वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः।
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ।।

सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च।
आश्रमान्सरितश्चैव सरांसि च नराधिप ।।

चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत।
प्रभासं चोदधौ तीर्थं त्रिषु लोकेषु विश्रुतम् ।।

तत्र पिण्डारकं नाम तापसाचरितं शिवम्।
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ।।

तत्र देवर्षिवीरेण नारदेनानुकीर्तितः।
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ।।

पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते।
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ।।

`एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः।
नागपर्यङ्कमुत्सृज्यह्यागतो मधुरां पुरीम्' ।।

पुण्या द्वारवती तत्रयत्रासौ मधुसूदनः।
साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः ।।

ये च कवेदविदो विप्रा ये चाध्यात्मविदो जनाः।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ।।

पवित्राणां हि गोविन्दः पवित्रं परमुच्यते।
पुण्यानामपि पुण्योसौ मङ्गालानां च मङ्गलम्।
त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः ।।

अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः।
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि षडशीतितमोऽष्यायः ।।