आरण्यकपर्व

अध्यायः ८४

Aranyaka Parva (Sanskrit) · Adhyaya 84
अक्षर का आकार

वैशंपायन उवाच।

भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ।।

मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ।।

स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ।।

अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ।
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ।।

त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ।
नारदोऽपितथा वेद योष्यशंसत्सदा मम ।।

तथाऽहमपि जानामि नरनारायणावृषी।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ।।

इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम्।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ।।

भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः।
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ।।

सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा।
`सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः'।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ।।

स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः।
योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः।
रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः ।।

निसृष्ट इव कालेन युगान्तज्वलनो यथा।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ।।

तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान्।
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ।।

संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम्।
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ।।

स साक्षादेव सर्वाणि शक्रात्परपुरंजयः।
दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते ।।

अलं स तेषां सर्वेषामिति मे धीयते मतिः।
नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया ।।

ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम्।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ।।

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर।
अवधानं न गच्छामः काम्यके सह कृष्णया ।।

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि।
आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः ।।

यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम्।
प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम् ।।

विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान्।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ।।

आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम्।
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि चतुरशीतितमोऽध्यायः ।। 84 ।।