आरण्यकपर्व
अध्यायः ६५
बृहद्श्व उवाच।
हृतराज्ये नले भीमः सभार्येऽदर्शनं गते।
`चिन्तयामास बहुशः सहामात्यैर्नराधिपः ।।
समाहूय द्विजान्सर्वानिदं वचनमब्रवीत्।
अग्रहारं च दास्यामिग्रामं नगरसंमितम् ।।
दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः।
गवां शतसहस्राणि दाता तस्मै द्विजातये ।।
इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान्।
प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया' ।।
संदिदेश च तान्भीमो वसु दत्ता च पुष्कलम्।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ।।
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ।।
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम्।
हिरण्यंच सुवर्णं च दासीदासं तथैव ।।
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा।
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ।।
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम्।
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् ।।
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ।।
तयैव राजमाता च ब्राह्मणान्पर्यवेषयत्।
भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह ।।
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम्।
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ।।
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्।
निबद्धां धूमजालेन प्रभामिव विभावसोः ।।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।
तर्कयामास भैमीति कारणैरुपपादयन् ।।
सुदेव उवाच।
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियं ।।
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ।।
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ।।
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्।
मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव ।।
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्।
पतिशोकाकुलां दीनां कृशस्त्रोतां नदीमिव ।।
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्।
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ।।
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम् ।।
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्।
चन्द्रलेखामिव नवांव्योम्नि नीलाभ्रसंवृताम् ।।
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया ।।
भर्ता नाम परं नार्या भूषणं भूषणैर्विना।
एषा हि रहिता तेन शोभमाना न शोभते ।।
दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः।
धारयत्यात्मनो देहं न शोकेनापि सीदति ।।
इमामसितकेशान्तां शतपत्रायतेक्षणाम्।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ।।
कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा।
भर्तुः समागमात्साध्वीरोहिणी शशिनो यथा ।।
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ।।
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृतम्।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ।।
युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ।।
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।
अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम् ।।
बृहदश्व उवाच।
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ।।
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ।।
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ।।
त्वत्कृतेबन्धुवर्गाश्च गतसत्वा इवासते।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ।।
बृहदश्व उवाच।
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान् ।।
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ।।
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता।
सुदेवेन सहैकान्ते कथयन्तीं च भारत ।।
जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम्।
ब्राह्मणेन सहागम्य तांविद्धि यदि मन्यसे ।।
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा।
जगाम यत्रसा बाला ब्राह्मणेन सहाभवत् ।।
ततः सुदेवमानाय्य राजमाता विशांपते।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ।।
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना।
त्वया च विदिता विप्र कथमेवंगता सती ।।
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्यादेवरूपिणीम् ।।
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि पञ्चषष्टितमोऽध्यायः ।। 65 ।।