आरण्यकपर्व

अध्यायः ६४

Aranyaka Parva (Sanskrit) · Adhyaya 64
अक्षर का आकार

बृहदश्व उवाच।

तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ।।

स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ।।

अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ।।

यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम्।
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ।।

`इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः।
उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते' ।।

वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ।।

स त्वमातिष्ठ योगं तं येन शीध्रां हया मम।
भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ।।

त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ।
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ।।

बृहदश्व उवाच।

एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः।
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ।।

स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन्।
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ।।

क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी।
स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ।।

एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्।
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक।
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ।।

तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्।
आसीद्बहुमता नारी तस्या दृढतरश्च सः ।।

स वै केनचिदर्थेन तया मन्दो व्ययुज्यत।
विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ।।

दह्यमानः स शोकेन दिवारात्रमतन्द्रितः।
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ।।

स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन।
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ।।

सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने।
त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ।।

एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता।
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ।।

श्वापदाचरिते नित्यं वने महति दारुणे।
त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ।।

इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्।
अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि चतुःषष्टितमोऽध्यायः ।। 64 ।।