आरण्यकपर्व

अध्यायः ४४

Aranyaka Parva (Sanskrit) · Adhyaya 44
अक्षर का आकार

वैसंपायन उवाच।

कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत्।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ।।

गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसांवराम्।
उर्वशीं पुरुषव्याघ्रं सोपातिष्ठतु फल्गुनम् ।।

यथा न तामभिसृतां विद्यादस्मन्नियोगतः।
तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद ।।

एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ।।

तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ।।

विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमिहागतः।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ।।

यः स देवमनुष्येषु प्रख्यातः सहजैर्गुणैः।
श्रिया शीलेन रूपेण श्रुतेन च बलेन च।
प्रख्यातः शौर्यवीर्याभ्यां प्रपन्नः प्रतिभानवान् ।।

तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः।
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान् ।।

योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसाऽपि च ।।

एको वै रक्षिता चैव त्रिदिवं मघवानिव।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ।।

सुहृदश्चान्नपानेन विविधेनाभिवर्षति।
सत्यवागूर्जितो वक्ता रूपवाननहंकृतः ।।

भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ।।

विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान्।
तव शक्राभ्यनुज्ञातः पादावद्यप्रपद्यताम्।

एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च।
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ।।

यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ।
तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनं ।।

तस्य चाहं गुणौघेन फल्गुने जातमन्मथा।
गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम् ।।

वैशंपायन उवाच।

ततो विसृज्यगन्धर्वं कृतकृत्या शुचिस्मिता।
उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा ।।

स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः।
धनंजयस्य रूपेण शरैर्मन्मथचोदितैः ।।

अतिविद्धेन मनसा मन्मथेन प्रदीपिता।
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे ।।

चित्तसंकल्पभावेन सुचित्ताऽनन्यमानसा।
मनोरथेन संप्राप्तं रमयन्तीव फल्गुनम् ।।

निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत् ।।

मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा।
केशपाशेन ललना गच्छमाना व्यराजत ।।

भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च।
शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती ।।

दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ।
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः ।।

स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे।
त्रिवलीदामचित्रेण मध्येनातीव शेभिना ।।

रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम्।
मन्मथायतनं शुभ्रं रशनादामभूषितम् ।।

ऋषीणामपि दिव्यानां मनोव्याघातकारणम्।
सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत् ।।

गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली।
कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ ।।

शीधुपानेन चाल्पेन तुष्टा च मदनेन च।
विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत् ।।

सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी।
बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ।।

सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता।
तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति ।।

ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः।
भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता ।।

तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता।
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना ।।

उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम्।
स शङ्कितमना राजन्प्रत्यगच्छत तां निशि ।।

दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः।
तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् ।।

अर्जुन उवाच।

अभिवादये त्वां शिरसा प्रवराप्सरसांवरे।
किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्।
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः ।।

अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी।
गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम् ।।

उर्वश्युवाच।

यथा मे चित्रसेनेन कथितं मनुजोत्तम।
नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता ।।

उपस्ताने महेन्द्रस् वर्तमाने मनोरमे।
तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे ।।

रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः।
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम ।।

महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च।
सिद्धचारणयक्षेषु महोरगगणेषु च ।।

उपविष्टेषु सर्वेषु स्थानमानप्रभावतः।
ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु ।।

वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन।
दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन ।।

सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह।
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान् ।।

तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम्।
तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः ।।

तथैवाप्सरसः सर्वाविशिष्टाः स्वगृहं गताः।
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः ।।

ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम्।
प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम् ।।

त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि।
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह ।।

शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम्।
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत् ।।

ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ।
तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम ।।

न केवलं हि चक्रेण प्रेषिता चाहमागता।
चिराभिलषितो वीर ममाप्येष मनोरथः ।।

वैशंपायन उवाच।

तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः।
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः ।।

दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि।
गुरुदारैः समाना मे निश्चयेन वरानने ।।

[यथा कुन्तीमहाभागा यथेन्राणी शची मम।
तथा त्वमपि कल्याणीनात्र कार्या विचारणा]

यच्चेक्षिताऽसि विस्पष्टं विशेषेण मया शुभे।
तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते ।।

इयं पौरववंशस् जननी सुदतीति ह।
त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः ।।

न मामर्हसि कल्याणि अन्यथा ध्यात्रमप्सरः।
गुरोर्गरुतरा मे त्वं मम त्वं वंशवर्धिनी ।।

उर्वश्युवाच।

अनावृताश्च सर्वाः स्म देवराजाभिनन्दन।
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि ।।

पितरः सोदराः पुत्रा नप्तारो वा त्विहागताः।
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः ।।

तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि।
हृच्छयेन च संतप्तां भक्तां च भज मानद ।।

अर्जुन उवाच।

शृणु सत्यंवरारोहे यत्त्वां वक्ष्याम्यनिन्दिते।
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः ।।

यथा कुन्ती च माद्री च शची चैव समा इह।
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी ।।

गच्छ मूर्ध्ना प्रपन्नोस्मि पादौ ते वरवर्णिनि।
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया ।।

वैशंपायन उवाच।

ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता।
वेपन्ती भ्रुकुटीकक्रा शशापाथ धनंजयम् ।।

उर्वश्युवाच।

तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम्।
यस्मान्मां नाभिनन्देथाः कामबाणवशंगताम् ।।

तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः।
अपुंस्त्वेन च विख्यातः पण्ढवद्विचरिष्यसि ।।

एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यथ।
पुनः प्रत्यागता क्षिप्रमुर्वशी स्वं निवेशनम् ।।

पार्थोपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसम्।
विवक्षुश्चित्रसेनाय प्रातः सर्वमहृष्टवत् ।।

ततः प्रभाते विमले गन्धर्वाय यथातथम्।
निवेदयामास तदा चित्रसेनाय पाण्डवः ।।

तच्च सर्वं यथावृत्तं शापं चैव यथातथम्।
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः ।।

तदा त्वानाय्य तनयं विविक्ते हरिवाहनः।
सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत ।।

सुपुत्राद्यपृथा तात त्वया पुत्रेण सत्तम।
ऋषयोपि हि धैर्येण जिता वै ते महाभुज ।।

यं च दत्तवती शापमुर्वशी तव मानद।
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति ।।

अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ।
वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि ।।

तेन नर्तकवेपेण अपुंस्त्वेन तथैव च।
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि ।।

एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा।
मुदं परमिकां लेभे न च शापं व्यचिन्तयत् ।।

चित्रसेनेन सहितो गन्धर्वेण यशस्विना।
रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः ।।

य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै।
न तस्य कामः कामेषु पापकेषु प्रवर्तते ।।

इदममरवरात्मजस्य घोरं
सुचि चरितं विनिशाम्य फल्गुनस्य।
व्यपगतमददम्भरागदोषा-
स्त्रिदिवगताऽभिरमन्ति मानवेन्द्राः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
इन्द्रलोकाभिगमनपर्वणि चतुश्चत्वारिंशोऽध्यायः ।। 44 ।।