आरण्यकपर्व

अध्यायः ३७

Aranyaka Parva (Sanskrit) · Adhyaya 37
अक्षर का आकार

वैशंपायन उवाच।

कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ।।

विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ।
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ।।

स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः।
धनंजयंधर्मराजो रहसीदमुवाच ह ।।

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ।।

दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम्।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ।।

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते।
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ।।

आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ।।

अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा।
सग्रामनगरा पार्थ ससागरवनाकरा ।।
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ।।

अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ।।

गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ।।

देवतानां यथाकालं प्रसादं प्रतिपालय।
तपसा योजयात्मानमुग्रेण भरतर्षभ ।।

धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ।।

इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ।।

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे।
`अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते ।।'

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ।।

वैशंपायन उवाच।

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ।।

दीक्षितं विधिना तेन यतवाक्कायमानसम्।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ।।

निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम्।
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ।।

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्।
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ।।

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ।।

तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम्।
अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ।।

क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि।
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ।।

अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः।
`सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ।।

स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्।
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ।।

एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा।
तपोयोगमनाः पार्थः पुरोहितमवन्दत ।।

ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत।
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ।।

तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ।
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ।।

अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्।
अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्।
अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।।

गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम्।
त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय ।।

न चाधर्मविदं देवा नासिद्धं नातपस्विनम्।
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ।।

रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः।
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ।।

विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता।
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ।।

आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः।
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ।।

संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः।
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ।।

आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता।
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ।।

दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता।
मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन।
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ।।

तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय।
त्वादृशेन हि देवानां श्लाघनीयः समागमः ।।

सुहृदां सोदराणां च सर्वेषां भरतर्षभ।
त्वं गतिः परमा तात वृत्रहा मरुतामिव ।।

तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते।
सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ।।

स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम।
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ।।

शतशृङ्गे महाबाहो मघवानिदमब्रवीत्।
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ।।

विदितः सर्वभूतानां दिवं तात गमिष्यसि।
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ।।

मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि।
अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ।।

गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि।
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ।।

तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्।
कंचिद्देशमितः प्राप्य तपोयोगमना भव ।।

कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्।
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ।।

तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ।
मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ।।'

तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा।
प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः।
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ।।

नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्।
`धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः।
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ।।'

ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः।
प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्।
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ।।

स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ।
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ।।

अवरोधाद्वने वासात्सर्वस्वहरणादपि।
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ।।

मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः।
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ।।

इदं मे परमं दुःखं यः स पापः सुयोधनः।
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ।।

तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः।
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ।।

`ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ।
वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ।।'

जेता यः सर्वशत्रूणां यः पावकमतर्पयः।
जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ।।'

अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते।
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ।।

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ।।

`वसुदेवस्वसा देवी त्वामार्या पुनरागतम्।
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः' ।।

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे।
रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ।।

न च नः पार्थ भोगेषु न धने नोत जीविते।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ।।

त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।।

आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव।
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ।।

बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ।
प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ।।

ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
इमा वै तव पान्थस् पालयन्तु धनञ्जय ।।

वैशंपायन उवाच।

एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी।

ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ।।

`शनैरिव दिशं वीर उदीचीं भरतर्षभ।
संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत।
असज्जमानो वृक्षेषु जगाम सुमहाबलः ।।'

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ।।

सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ।।

अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः।
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ।।

हिमवन्तमतिक्रम्य गन्धमादनमेव च।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ।।

इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः।
`गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ।।

प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्।
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन ।।

समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः'।
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ।।

तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ।।

ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्।
सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ।।

कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी।
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ।।

नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ।।

नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्।
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ।।

इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्।
न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ।।

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ।।

एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः।
प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ।।

ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे।
त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम् ।।

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ।।

कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम्।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।।

न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ।।

भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ।।

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ।।

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्।
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ।।

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ।।

इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः।
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ।।

।। इति श्रीमन्महाभारेत अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि सप्तत्रिंशोऽध्यायः ।। 37 ।।