आरण्यकपर्व

अध्यायः ३५

Aranyaka Parva (Sanskrit) · Adhyaya 35
अक्षर का आकार

भीमसेन उवाच।

सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा।
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ।।

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः।
फेनधर्मा महाराज फलधर्मा तथैव च ।।

निमेषादपि कौन्तेय यस्यायुरपचीयते।
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ।।

यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित्।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ।।

प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश।
आयुषोपचयं कृत्वा मरणायोपनेष्यति ।।

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ।।

यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ।।

यो न यातयते वैरमल्पसत्वोद्यमः पुमान्।
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ।।

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी।
हत्वा द्विषन्तं संग्रामे भुङ्क्ष्व बाहुजितं वसु ।।

हत्वा वै पुरुषो राजन्निकर्तारमरिंदम्।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ।।

अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः।
येनाहमभिसंतप्तो न नक्तं न दिवा शये ।।

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे।
आस्ते परमसंतप्तो नूनं सिंह इवाशये ।।

योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः।
सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ।।

नकुलः सहदेवश्च वृद्धा माता च वीरसूः।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ।।

सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः।
अहमेकश्च संतप्तो माता च प्रतिबिन्ध्यतः ।।

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ।।

नातः पापीयसी काचिदापद्राजन्भविष्यति।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ।।

शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ।।

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ।।

घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ।।

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्।
क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान् ।।

धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।।

बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ।।

अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च।
दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ।।

बृहत्साल इवानूपे शाखापुष्पपलावान्।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ।।

इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ।।

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ।।

मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः।
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ।।

तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः।
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ।।

न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ।।

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ।।

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश।
परिमाणएन तान्पश्य तावतः परिवत्सरान् ।।

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ।।

अथवाऽनडुहे राजन्साधने साधुवाहिने।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ।।

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ।।

।। इति श्रीमन्महाभारेत अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि पञ्चस्त्रिंशोऽध्यायः ।। 35 ।।