आरण्यकपर्व

अध्यायः ३३

Aranyaka Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

वैशंपायन उवाच।

याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः।
निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ।।

राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ।।

नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ।।

गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्।
आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ।।

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः।
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ।।

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ।।

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ।।

भवतः प्रियमित्येवं महद्व्यसनमीदृशम्।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ।।

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्।
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ।।

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ।।

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः।
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ।।

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ।।

भवान्धर्मो धर्म इति सततं व्रतकर्शितः।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ।।

दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम्।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ।।

स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम्।
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ।।

अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ।।

तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम्।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ।।

अधवा वयमेवैतान्निहत्य भरतर्षभ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ।।

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्।
काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ।।

आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ।।

कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा।
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ।।

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ।।

यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ।।

यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः।
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ।।

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ।।

सततं यश्च कामार्थी नेतरावनुतिष्ठति।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ।।

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ।।

तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ।।

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ।।

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते।
स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ।।

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति।
अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ।।

न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्।
उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ।।

इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा।
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ।।

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति।
स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ।।

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ।।

तस्य नाशं विनाशं वा जरया मरणेन वा।
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ।।

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च।
विपये वर्तमानानां या प्रीतिरुपजायते ।।

स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।।

न धर्मपर एव स्यान्न चार्थपरमो नरः।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ।।

धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।

कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।

धर्मं चार्थं च कामं च यथावद्वदतांवर।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।।

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ।।

तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ।।

विदितश्चैव मे धर्मः सततं चरितश्च ते।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ।।

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्।
एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ।।

एष नार्थविहीनेन शक्यो राजन्निपेवितुम्।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ।।

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ।।

न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्।
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ।।

प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ।।

भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका।
क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ।।

स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ।।

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ।।

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्।
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ।।

प्रजापालनसंभूतं फलं तव न गर्हितम्।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ।।

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ।।

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ।।

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ।।

जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम्।
निकृत्या लभते राज्यमाहारमिव शल्यकः ।।

भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ।।

एवं बलवतः सर्वमिति बुद्ध्वा महीपते।
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ।।

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ।।

सत्वेन कुरुते युद्धं राजन्सुबलवानपि।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ।।

सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा।
न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ।।

अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता।
बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ।।

अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ।।

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ।।

अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः।।

भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ।।

सत्वेन कुरुते युद्धं राजन्सुबलवानपि।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ।।

सर्वथा संहतैरेव दुर्बलैर्बलवानपि।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ।।

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः।
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ।।

एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम्।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ।।

न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ।।

अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा।
इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ।।

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च।
कथयन्त्यः परिषदः पृथग्राजन्समागताः ।।

इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ।।

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ।।

यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ।।

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः।
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ।।

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ।।

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ।।

इतिलोके निर्वचनं पुरश्चरति भारत।
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ।।

इमामवस्थां च गते सहास्माभिररिंदम्।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ।।

स भवान्रथमास्थाय सर्वोपकरणान्वितम्।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ।।

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्।
अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ।।

आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा।
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ।।

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ।।

न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ।।

सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च।
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ।।

शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्।
इह यत्नमुपाहृत्य बलेन महताऽन्वितः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ।। 33 ।।