आरण्यकपर्व

अध्यायः ३२

Aranyaka Parva (Sanskrit) · Adhyaya 32
अक्षर का आकार

द्रौपद्युवाच।

नावमन्ये न गर्हे च धर्मं पार्थ कथंचन।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ।।

आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत।
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे ।।

कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ।।

आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम्।
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ।।

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ।।

उत्थानमभिजानन्ति सर्वभूतानि भारत।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ।।

पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तरः।
अपि धाता विधाता च यथाऽयमुदके बकः ।।

[अकर्मणां वै भूतानां वृत्तिः स्वान्न हि काचन।
तदेवाभिप्रपद्येत न विहन्यात्कदाचन ।।]

स्वकर्म कुरु माहासीः कर्मणा भव दंशितः।
कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वां ।।

तस्य चापि भवेत्कार्वं विवृद्धौ रक्षणे तथा।
भक्ष्यमाणो द्यनावाषः क्षीयेत हिमवानपि ।।

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि।
[तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ।।]

दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान्।
नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन ।।

यश्च दिष्टपरो लोके यश्चापि हठवादकः।
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ।।

यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन्।
अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ।।

तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्।
आसीत न चिरं जीवेदनाथ इव दुर्बलः ।।

अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ।।

वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ।।

यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः।
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम् ।।

स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्।
तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम ।।

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ।।

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः।
विदधाति विभज्येह फलं पूर्वकतं नृणाम् ।।

यद्धि यः पुरुषः किंचित्कुरुते वै शुभाशुभम्।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ।।

कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि।
स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः ।।

तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ।।

मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा।
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम् ।।

संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ।।

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः।
एवं धीरो विजानीयादुपायं चास्य सिद्धये ।।

ततः प्रवर्तते पश्चात्कारणेष्वस्व सिद्धये।
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ।।

कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम्।
इदं त्वकुशलेनेति विशेषादुपलभ्यते ।।

इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्।
पुरुषः कर्मसाध्येषु स्वाच्चेदयमकारणम् ।।

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते।
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ।।

सर्वमेव हठेनैके दैवेनैके वदन्त्युत।
पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते ।।

न चैवैतावता कार्यं मन्यन्त इति चापरे।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।।

दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः।
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ।।

पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्।
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदोजनाः ।।

तथैव धाता भूतानामिष्टानिष्टफलप्रदः।
यदि न स्वानन भूतानां कृपणो नाम कश्चन ।।

यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम् ।।

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः।
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ।।

कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः।
एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु संप्रति ।।

कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ।।

असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते।
कृतेकर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते ।।

अलक्ष्मीराविशत्येनं शयानमलसं नरम्।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ।।

अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः।
धीरा नराः कर्मरता न तु निःसंशयाः क्वचित् ।।

एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम्।
स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ।।

अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते।
वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि ।।

अन्येषां कर्म सफलमस्माकमपि वा पुनः।
विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम् ।।

पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत।
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ।।

वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः।
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया ।।

तच्चेदं फलमस्माकमपराधो न मे क्वचित्।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्रगर्हयेत् ।।

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत।
निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः ।।

सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा।
बहूनां समवाये हि भावानां कर्म सिध्यति ।।

गुणाभावे फलं न्यूनं भवत्यफलमेव च।
अनारम्भे हि न फलं न गुणो दृश्यते क्वचित् ।।

देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये।
युनक्ति मेधया धीरो यथायोगं यथाबलम् ।।

अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः।
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ।।

यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ।।

व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर।
अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः ।।

उत्थानयुक्तः सततं परेषामन्तरैषणे।
आनृण्यमाप्नोति नरः परस्यात्मन एव च ।।

न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन।
न ह्यात्मपरिभूतस् भूतिर्भवति शोभना ।।

एवं संस्थितिका सिद्धिरियं लोकस्य भारत।
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः ।।

ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्।
सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ ।।

नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा।
तेषां सकाशादश्रौषमहमेतां तदा गृहे ।।

स मां राजन्कर्मवतीमागतामाह सान्त्वयन्।
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि द्वात्रिंशोऽध्यायः ।। 32 ।।