आरण्यकपर्व

अध्यायः ३१३

Aranyaka Parva (Sanskrit) · Adhyaya 313
अक्षर का आकार

युधिष्ठिर उवाच।

नापदामस्ति मर्यादा न निमित्तं न कारणम्।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः ।।

भीम उवाच।

प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा।
न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम् ।।

अर्जुन उवाच।

वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयं ।।

सहदेव उवाच।

शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत।
स मया न हतस्तत्रतेन प्राप्ताः स्म संशयम् ।।

वैशंपायन उवाच।

ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ।।

पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः ।।

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येऽष्ठस्य शासनात्।
तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम्।
अब्रवीद्धांतरं ज्येष्मभिवीक्ष्य समन्ततः ।।

पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्।
सारसानां च निर्ह्रादस्तत्रोदकमसंशयम् ।।

ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः।
गच्छ सौम्य ततः शीघ्रं तूणैः रपानीयमानय ।।

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ।।

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्।
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।।

यक्ष उवाच।

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ।।

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ।।

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः।
अब्रवीद्ध्रातरं वीरं सहदेवमरिंदमम् ।।

भ्राता चिरायते तात सहदेव तवाग्रजः।
तं चैवानय सोदर्यं पानीयं च त्वमानय ।।

सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ।।

भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः।
अभिदुद्राव रपानीयं ततो वागभ्यभाषत ।।

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च ।।

अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ।।

अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।।

तौ चैवानय भद्रं ते पानीयं च त्वमानय।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः ।।

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः।
आमुक्तखङ्गो मेधावी तत्सरः प्रत्यपद्यत ।।

यतः पुरुषशार्दूलौ पानीयहरणे गतौ।
तौ ददर्श हतौ तत्रभ्रातरौ श्वेतवाहनः ।।

`विगतासू नरव्याघ्रौ शयानौ वसुधातले'।
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ।।

नापश्यत्तत्रकिंचित्स भूतमस्मिन्महावने।
सव्यसाची पिपासार्तः पानीयं सोभ्यधावत ।।

अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे।
यत्त्वमिच्छसि पानीयं नैतच्छक्यं बलात्त्वया ।।

कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिवक्ष्यसि।
ततः पास्यसि पानीयं हरिष्यसि च भारत ।।

वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ।।

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः।
प्रववर्ष रदिशः कृत्स्नाः शब्दवेधं च दर्शयन्।
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभः।

स त्वमोघानिषून्मुक्त्वा तृष्णयाऽभिप्रपीडितः।
अनेकैरिषुसंघातैरन्तरिक्षे ववर्ष ह ।।

यक्ष उवाच।

किं विधानेन ते पार्थ प्रश्नानुक्त्वा पयः पिब।
अनुक्त्वा च पिबन्प्रश्नान्पीत्वैव नभविष्यसि ।।

स च मोघानिषून्दृष्ट्वातृष्णया च प्रपीडितः।
अवज्ञायैव तां वाचं पीत्वैव निपपात् ह ।।

अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च बीभत्सुश्च परंतप ।।

चिरंगतास्तोयहेतोर्न चागच्छन्ति भारत।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ।।

भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत।
रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः ।।

तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।।

सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे।
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।।

ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ।।

यक्ष उवाच।

मा तात साहसंकार्षीर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ।।

एवमुक्तस्तदा भीमो यक्षेणामिततेजसा।
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह ।।

ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः।
`आत्मनाऽऽत्मानमन्विष्य विचारमकरोत्प्रभुः ।।

ततश्चिरगतान्भ्रातृनथाऽऽज्ञाय युधिष्ठिरः।
चिरायमाणान्बहुशः पुनः पुनरुवाचह ।।

किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत्।
प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन् ।।

न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः।
अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः ।।

किंनु तत्कारणं येन नायान्ति पुरुषर्षभाः।
गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः' ।।

समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा।
व्यपेतजननिर्घोषं प्रविवेश महावनम् ।।

रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्।
नीलभास्वरवर्णैश्च पादपैरुशोभितम् ।।

भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः।
`मृदुशाड्वलसंकीर्णभूमिभागं मनोहरम्' ।।

स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ।।

उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।।

`ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः'।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
आरणेयपर्वणि
त्रयोदशाधिकत्रिशततमोऽध्यायः ।। 313 ।।