आरण्यकपर्व

अध्यायः ३१२

Aranyaka Parva (Sanskrit) · Adhyaya 312
अक्षर का आकार

जनमेजय उवाच।

एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्।
प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः ।।

वैशंपायन उवाच।

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ।।

पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः।
स्वादुमूलफलं रम्यं विचित्रबहुपादपम् ।।

अनुभुक्तफलाहाराः सर्व एव मिताशनाः।
न्यवसन्पाण्डवास्तत्रकृष्णया सह भार्यया ।।

वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ।।

ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः।
क्लेशमार्च्छन्त विपुलं सुखोदर्कं परंतपाः ।।

तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः।
वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु ।।

अरणीसहितं भाण्डं ब्राह्मणस्य तपस्विनः।
मृगस् घर्षणस्य विपाणे समसज्जत ।।

तदादाय गतो राजंस्त्वरमाणो महामृगः।
आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः ।।

ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम।
त्वरितोऽभ्यागमत्तत्रअग्निहोत्रपरीप्सया।
`तेषां तु वसतां तत्र पाण्डवानां महारथम्' ।।

अजातशत्रुमासीनं भ्रातृभिः सहितं वने।
आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत् ।।

अरणीसहितं भाण्डं समासक्तं वनस्पतौ।
मृगस्य घऱ्षमाणस्य विषाणे समसज्जत ।।

तमादाय गतो राजंस्त्वरमाणो महामृगः।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ।।

तस्य गत्वा पदं राजन्नासाद्य च महामृगम्।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ।।

ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ।।

सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ।।

कर्णिनालीकनाराचानुत्सृजन्तो महारथाः।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ।।

तेषां प्रयतमानानां नादृश्यत महामृगः।
अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ।।

शीतलच्छायमागमय् न्यग्रोधं गहने वने।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ।।

तेषां समुपविष्टानां नकुलो दुःखितस्तदा।
अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम् ।।

नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव।
अनुत्तराः सर्वभूतेषु भूप
संप्राप्ताः स्मः संशयं किंनु राजन् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
आरण्येयपर्वणि
द्वादशाधिकत्रिशततमोऽध्यायः ।। 312 ।।