आरण्यकपर्व
अध्यायः ३०७
वैशंपायन उवाच।
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ।।
अयं वै कीदृशस्तेन मम दत्तो हमात्मना।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति ।।
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला ।।
ततो हर्म्यतलस्था सा महार्हशयनोचिता।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम् ।।
तत्र बद्धमनोदृष्टिरभवत्सा सुमध्यमा।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा ।।
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम्।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ।।
तस्याः कौतूहरलं त्वासीन्मन्त्रं प्रति नराधिप।
आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी ।।
प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम्।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ।।
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ।।
योगात्कृत्वा द्विधाऽऽत्मानमाजगाम तताप च।
आबभाषे ततः कुन्तीं साम्ना परमबल्गुना ।।
आगतोस्मि वशं भद्रे तव मन्त्रबलात्कृतः।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते ।।
कुन्त्युवाच।
गम्यतां भगवंस्तत्र यत एवागतो ह्यसि।
कौतूहलात्समाहूतः प्रसीद भगवन्निति ।।
सूर्य उवाच।
गमिष्येऽहं यथा मा त्वं ब्रवीषि तनुमध्यमे।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ।।
तवाभिसन्धि सुभगे रसूर्यात्पुत्रो भवेदिति।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ।।
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि।
उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने।
अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते ।।
यदि त्वंवचनं नाद्य करिष्यसि मम प्रियम्।
शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते ।।
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः।
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ।।
तस् च ब्राह्मणस्याद्य योसौ मन्त्रमदात्तव।
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ।।
एते हि विबुधाः सर्वेपुरंदरमुखा दिवि।
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे ।।
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ।।
वैशंपायन उवाच।
ततोऽपश्यत्रिदशान्राजपुत्री
सर्वानव स्वेषु धिष्ण्येषु खस्थान्।
प्रभावन्तं भानुमन्तं महान्तं
यथाऽऽदित्यं रोचमानांस्तथैव ।।
सा तान्दृष्ट्वा त्रिदशानेव बाला
सूर्यं देवी वचनं प्राह भीता।
गच्छ त्वं वै गोपते स्वं विमानं
कन्याभावाद्दुःख एवापचारः ।।
पिता माता गुरवश्चैवयेऽन्ये
देहस्यास्य प्रभवन्ति प्रदाने।
नाहं धर्मं लोपयिष्यामि लोके
स्त्रीणां वृत्तं पूज्यते देहरक्षा ।।
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो।
बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो ।।
सूर्य उवाच।
बालेति कृत्वाऽनुनयं तवाहं
ददानि नान्यानुनयं लभेत।
आत्मप्रदानं कुरु कुन्तिकन्ये
शान्तिस्तवैवं हि भवेच्च भीरु ।।
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै।
असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि ।।
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्।
`गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः'।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे ।।
सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम्।
विशिष्टा सर्वलोकेषु भविष्यसि न संशय ।।