आरण्यकपर्व

अध्यायः ३०६

Aranyaka Parva (Sanskrit) · Adhyaya 306
अक्षर का आकार

वैशंपायन उवाच।

सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्।
तोषयामास शुद्धेन मनसा संशितव्रता ।।

प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः ।।

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ।।

अन्नादिसमुदाचारः शय्यासनकृतस्तथा।
दिवसेदिवसे तस्य वर्धते न तु हीयते ।।

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा।
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ।।

स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत् ।।

कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत्।
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ।।

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा।
प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता ।।

तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत् ।।

तां प्रभाते च सायं च पिता पप्रच्छ भारत।
अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया ।।

तं सा परममित्येवप्रत्युवाच यशस्विनी।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ।।

ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः।
नापश्यद्दुष्कृतंकिंचित्पृथायाः सौहृदे रतः ।।

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्।
प्रीतोस्मि परमं भद्रे परिचारेण ते शुभे ।।

वरान्वृणीष्व क्रल्याणि दूरापान्मानुपैरिह।
यैस्त्वं सीमन्तिनीः सर्वायशसाऽभिमविष्यसि ।।

कुन्त्युवाच।

कृतानि मम सर्वाणि सस्या मे वेदवित्तम।
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ।।

ब्राह्मण उवाच।

यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते।
इमं मन्त्रं गृहाण त्वमाह्रानाय दिवौकसाम् ।।

यंयं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तेनतेन वशे भद्रे स्थातव्यं ते भविष्यति ।।

अकामो वा सकामो वा स समेष्यति ते वशे।
विबुधो मन्त्रसंभ्रान्तो वाक्यैर्भृत्य इवानतः ।।

वैशंपायन उवाच।

न शशक द्वितीयं सा प्रत्याख्यातुमनिन्दिता।
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ।।

ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः।
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ।।

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह।
उपितोस्मि सुखं राजन्कन्यया परितोपितः ।।

तवगेहे सुविहितः सदा सुप्रतिपूजितः।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत ।।

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा।
बभूव विस्मयाविष्टः पृथां च समपूजयत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
कुण्डलाहरणपर्वणि
षडधिकविशततमोऽद्यायः ।। 306 ।।