आरण्यकपर्व

अध्यायः २९५

Aranyaka Parva (Sanskrit) · Adhyaya 295
अक्षर का आकार

मार्कण्डेय उवाच।

अथ मद्राधिपो राजा नारदेन समागतः।
उपविष्टः सभामध्ये कथायोगेन भारत ।।

ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ।।

नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ।।

नारद उवाच।

क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप।
किमर्थं युवतीं भद्र न चैनां संप्रयच्छसि ।।

अश्वपतिरुवाच।

कार्येण खल्वनेनैव प्रेषिताद्यैव चागता।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ।।

मार्कण्डेय उवाच।

सा ब्रूहि विस्तरेणेति पित्रा संयोदिता शुभा।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत् ।।

आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह ।।

विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ।।

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्।
महारण्यं गतश्चापि पस्तेषे महाव्रतः ।।

तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ।।

नारद उवाच।

अहो वत महत्पापं सावित्र्या नृपते कृतम्।
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ।।

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते।
तथाऽस् ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ।।

बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते ।।

राजोवाच।

अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः।
क्षमावानपि वा शृरः सत्यवान्पितृवत्सलः ।।

नारद उवाच।

विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ।
महेन्द्र इवन वीरश्च वसुधेव क्षमान्वितः ।।

अश्वपतिरुवाच।

अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ।।

नारद उवाच।

सांकृते रन्तिदेवस् स्वशक्त्या दानतः समः।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ।।

ययातिरिव चोदारः सोमवत्प्रियदर्शनः।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ।।

`स वदान्यः स तेजस्वीधीमांश्चैव क्षमान्वितः'।
स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः।
सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ।।

नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा।
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ।।

अश्वपतिरुवाच।

गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ।।

नारद उवाच।

एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ।।

एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान्।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ।।

राजोवाच।

एहि सावित्रि गच्छस्व अन्यं वरय शोभने।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ।।

यथा मे भगवानाह नारदो देवसत्कृतः।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ।।

सावित्र्युवाच।

सकृदंशो निपतति सकृत्कन्या प्रदीयते।
स कृदाह ददानीति त्रीण्येतानि सकृत्सकृते ।।

दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ।।

मनसा निश्चयं कृत्वाततो वाचाऽभिधीयते।
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ।।

नारद उवाच।

स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव।
नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ।।

नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ।।

राजोवाच।

अविचाल्यमेतदुक्तं तथ्यं च भवता वचः।
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ।।

नारद उवाच।

अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ।।

मार्कण्डेय उवाच।

एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः।
राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
पतिव्रतामाहात्म्यपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः ।। 295 ।।