आरण्यकपर्व

अध्यायः २९४

Aranyaka Parva (Sanskrit) · Adhyaya 294
अक्षर का आकार

युधिष्ठिर उवाच।

नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने।
हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम् ।।

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्।
जयद्रथेन चपुनर्वनाच्चापि हृता बलात् ।।

अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ।।

मार्कण्डेय उवाच।

शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर।
सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया ।।

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः।
ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः ।।

यज्वा दानपतिर्दक्षः पौरजानपदप्रियः।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ।।

क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः।
अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ।।

अपत्योत्पादनार्थं च तीव्रं नियममास्थितः।
काले परिमिताहारो ब्रहमचारी जितेन्द्रियः ।।

हुत्वा शतसहस्रं स सावित्र्या राजसत्तम।
षष्ठेषष्ठे तदाकाले बभूव मितमोजनः ।।

एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ।।

रूपिणी तु तदा राजन्दर्शयामास तं नृपम्।
अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ।।

उवाच चैनं वरदा वचनं पार्थिवं तदा।
सा तमश्वपतिं राजन्सावित्री नियमे स्थितम् ।।

ब्रह्मचर्येण शुद्धेन दमेन नियमेन रच।
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिवाः ।।

वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्।
न प्रामादश्च धर्मेषु कर्तव्यस्ते कथंचन ।।

अश्वपतिरुवाच।

अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ।।

तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्।
संतां परमो धर्म इत्याहुर्मां द्विजातयः ।।

सावित्र्युवाच।

पूर्वमेव मया राजन्नभिप्रायमिमं तव।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ।।

प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम्।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ।।

उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन।
पितामहनियोगेन तुष्टा ह्येतद्ब्रवीमि ते ।।

स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः।
प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति ।।

अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः।
स्वराज्ये चावसद्बीरः प्रजा धर्मेण पालयन् ।।

कस्मिंश्चित्तु गते काले स राजा नियतब्रतः।
ज्येष्ठायां धर्मचारिण्यां महिष्यां कगर्भमादधे ।।

राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ।
व्यर्धतं तदा शुक्ले तारापतिरिवाम्बरे ।।

प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ।।

सावित्र्या प्रीतया दत्ता साव्त्र्या द्दुतया ह्यपि।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ।।

सा विग्रहवतीव श्रीव्यवर्धत नृपात्मजा।
कालेन चापि सा कन्या यौवनस्ता बभूव ह ।।

तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव।
प्राप्तेयं रदेवकन्येति दृष्ट्वा संमेनिरे जनाः ।।

तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा।
न कश्चिद्वरयामास तेजसा प्रतिवारितः ।।

अथोपोष्य शिरःस्नाता देवतामभिगम्य सा।
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ।।

ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः।
पितुः समीपमगमद्देवी श्रीरिव रूपिणी ।।

साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता ।।

यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ।।

राजोवाच।

पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्।
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ।।

प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम।
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ।।

श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः।
तथा त्वमपिकल्याणि गदतो मे वचः शृणु ।।

अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः।
मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता ।।

इदं मे वचनं क्षुत्वा भर्तुरन्वेषणे न्वर।
देवतानां यथा याच्यो न भवेयं तथा कुरु ।।

एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ।।

साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ।।

सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता।
तपोवनानिरम्याणि राजर्षीणां जगाम ह ।।

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ।।

एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा।
कुर्वी द्विजमुख्यानां तंतं देशं जगाम ह ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
पतिव्रतामाहात्म्यपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः ।। 294 ।।