आरण्यकपर्व

अध्यायः २९

Aranyaka Parva (Sanskrit) · Adhyaya 29
अक्षर का आकार

`वैशंपायन उवाच।

द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम्।
उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः ।।

कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः।
येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे।
क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम' ।।

युधिष्ठिर उवाच।

क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः।
इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ ।

यो हि संहरते क्रोधं भावस्तस्य सुशोभने।
`यो न संहरते क्रोधं तस्याभावो भवत्युत।
अभावकारणं तस्मात्क्रोधो भवति शोभने' ।।

यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे।
तस्याभावाय भवति क्रोधः परमदारुणः ।।

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ।।

क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ।।

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ।।

हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ।।

एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ।।

तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्ररेत्।
एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते ।।

आत्मानं च परांश्चैव त्रायते महतो भयात्।
क्रुध्यन्तमप्रतिक्रुध्यन्दूयोरेष चिकित्सकः ।।

मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः।
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ।।

तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः।
तस्माद्द्रौपद्यशक्तस् मन्योर्नियमनं स्मृतम् ।।

विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति।
स नाशयित्वा द्वेष्टारं परलोके न नन्दति ।।

तस्माद्बलवता चैव दुर्बलेन च नित्यदा।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ।।

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः।
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ।।

सत्यंचानृततः श्रेयो नृशंसाच्चानृशंसता।
तमेवं बहुदोषं त क्रोधं सद्भिर्विवर्जितम्।
मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम् ।।

तेजस्वीति यमाहुर्वै पण्डिता दीर्गदर्शिनः।
न क्रोधोऽभ्यन्तरस्तस् भवतीति विनिश्चेतम् ।।

वस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते।
तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः ।।

क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति।
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ।।

हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि।
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ।।

दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ।।

क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते।
कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम् ।।

क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम्।
रजस्तु लोकनाशाय विहितं मानुषान्प्रति ।।

तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ।।

यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ।।

यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ।।

अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः।
एवं विनाशो भूतानाममधर्मः प्रथितो भवेत् ।।

आक्रुष्ट पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ।।

हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ।।

एवं संकुपिते लोके जन्म कृष्णो न विद्यते।
प्रजानां सन्धिमूलं हि जन्म विद्धिशुभानने ।।

ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ।।

यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ।।

क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् ।।

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बवीयसा।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः।
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।।

क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ।।

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ।।

क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्।
यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति ।।

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ।।

अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च।
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।।

अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ।।

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः ।।

तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्।
यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः ।।

`इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा।'
क्षन्तव्यमेव सततं पुरुषेण विजानता।
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ।।

क्षमावतामयं लोकः परश्चैव क्षमावताम्।
इह सन्मानमृच्छन्ति परत्र च परा गतिम् ।।

येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ।।

इति गीताः काश्यपेन गाथानित्यं क्षमावताम्।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः ।।

पितामहः शान्तनवः रशमं संपूजयिष्यति।
कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति ।।

आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः।
कृपश्च संजयश्चैव शममेव वदिष्यतः ।।

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च।
पितामहश्च नो व्यासः शमं वदति नित्यशः ।।

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ।।

कालोऽयं दारुणः प्राप्तो भरतानामभूतये।
निश्चितं मे सदैवैतत्पुरस्तादपि भामिति ।।

सुयोधनो नार्हतीति क्षमा मामेव विन्दति।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ।।

एतदात्मवतां वृत्तमेष धर्मः सनातनः।
क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि एकोनत्रिंशोऽध्यायः ।। 29 ।।