आरण्यकपर्व
अध्यायः २८
द्रौपद्युवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ।।
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्।
बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः ।।
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ।।
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ।।
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ।।
प्रह्लाद उवाच।
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा।
इति तात विजानीहि द्वयमेतदसंशयम् ।।
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति।
भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ।।
सर्वभूतानि चाप्यस् न नमन्ते कदाचन।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ।।
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम्।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ।।
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च।
भोजनान्यथ पानानि सर्वोपकरणानि च ।।
आददीरन्नधिकृता यथाकाममचेतसः।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ।।
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन।
अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ।।
क्षमिणं तादृशं तांत ब्रुवन्ति कटुकान्यपि।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ।।
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ।।
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्।
`अकृतोपद्रवः कश्चिन्महानपि न पूज्यते।
पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ।।'
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ।।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ।।
अस्थाने यदि वा स्थाने सततं रजसावृतः।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ।।
मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ।।
सोऽवमानादर्थहानिमुपालम्भमनादरम्।
संतापद्वेषमोहांश्च शत्रूंश्च लभते नरः ।।
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात्।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ।।
योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।।
यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत्।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ।।
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्।
कालेकाले तु संप्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ।।
काले मृदुर्यो भवति काले भवति दारुणः।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ।।
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्।
ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ।।
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ।।
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्।
न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै ।।
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ।।
सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत्।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ।।
अजानता भवेत्कश्चिदपराधः कृतो यदि।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ।।
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्।
नासाध्यं मृदुना किंचित्तस्मात्तीव्रतरं मृदु ।।
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः।
अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा ।।'
नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम्।
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ।।
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः।
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ।।
तदहं तेजसः कालं तव मन्ये नराधिप।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ।।
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ।।
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः।
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि अष्टाविंशोऽध्यायः ।। 28 ।।