आरण्यकपर्व
अध्यायः २८४
मार्कण्डेय उवाच।
ततस्तत्रैवरामस्य समासीनस्य तैः सह।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ।।
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ।।
कोटीशतवृतोवाऽपिगजो गवय एव च।
वानरेन्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ।।
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ।।
गन्धमादनवासी तु प्रथितो गन्धमादनः।
कोटीशतसहस्राणि हरीणां समकर्षत ।।
पनसो नाम मेधावी वानरःसुमहाबलः।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ।।
श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्।
प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ।।
कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ।।
एते चान्ये च बहवो हरियूथपयूथपाः।
असङ्ख्येया महाराज समीयू रामकारणात् ।।
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्।
श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ।।
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ।।
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ।।
सवानरमहासैन्यः पूर्णसागरसन्निभः।
निवेशमकरोत्तत्रसुग्रीवानुमते तदा ।।
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ।।
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ।।
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः।
जघनं पालयामास सौमित्रिरकुतोभयः ।।
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ।।
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम्।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ।।
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ।।
विविधेषु प्रशस्तेषु बहुमूलफलेषु च।
प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ।।
निवसन्ती निराबाधा तथैवगिरिसानुषु।
उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ।।
द्वितीयसागरनिमं तद्बलंबहुलध्वजम्।
वेलावनं समासाद् निवासमकरोत्तदा ।।
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ।।
उपायः कोनु भवतां मतः सागरलङ्घने।
इयं हि महती सेना सागरश्चातिदुस्तरः ।।
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः।
समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ।।
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः।
नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ।।
शतयोजनविस्तारं न शक्ताः सर्ववानराः।
क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ।।
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ।।
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः।
प्लवोडुपप्रतारश्चनैवात्रमम रोचते ।।
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः।
प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ।।
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ।।
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः।
प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ।।
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्।
देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ।।
कौसल्यामातरित्येवमाभाष्य मधुरं वचः।
इदमित्याह रत्नानामाकरैः शतशो वृतः ।।
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ।
ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः।
एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ।।
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते।
येन गत्वादशग्रीवं हन्याम कुलपांसनम्।
`राक्षसंसानुबन्धं तं मम भार्यापहारिणम्' ।।
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ।।
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः।
उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ।।
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव।
शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ।।
यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ।।
अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ।।
स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ।।
इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह।
कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ।।
तेनोपायेन काकुत्स्थः सतुबन्धमकारयत्।
दशयोजनविस्तारमायतं शतयोजनम् ।।
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ।।
तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ।।
प्रतिजग्राह रामस्तं स्वागतेन महामनाः।
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ।।
राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ।।
सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम्।
चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ।।
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्।
ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ।।
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः।
भेदयामास कपिभिर्महान्ति च बहूनि च ।।
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ।
चरौ वानररूपेण तौ जग्राह विभीषणः ।।
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ।।
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्।
प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ।। 284 ।।