आरण्यकपर्व

अध्यायः २८३

Aranyaka Parva (Sanskrit) · Adhyaya 283
अक्षर का आकार

मार्कण्डेय उवाच।

राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः।
वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः ।।

सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम्।
ग्रहनक्षत्रताराभिरनुयान्तममित्रहा ।।

कुमुदोत्पलपद्मानां गन्धमादाय वायुना।
महीधरस्थः शीतेन सहसाप्रतिबोधितः ।।

प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः।
सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि ।।

गच्छ लक्ष्मण जानीहि किष्किंदायां कपीश्वरम्।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ।।

योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ।।

यदर्थं निहतो बाली मया रघुकुलोद्वह।
त्वया सहमहाबाहो किष्किन्धोपवने तदा ।।

कृतघ्नं तमहं मन्ये वानरापशदं भुवि।
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण ।।

असौ मन्ये न जानीते समयप्रतिपालनम्।
कृतोपकारं मां नूनमवमत्याल्पया धिया ।।

यदितावदनुद्युक्तः शेते कामसुखात्मकः।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ।।

अथापि घटतेऽस्माकमर्ते वानरपुङ्गवः।
तमादायैव काकुत्स्थ त्वरावान्भव माचिरम् ।।

इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ।।

किष्किन्धाद्वारमासाद्यप्रविवेशानिवारितः।
सक्रोध इतितं मत्वाराजा प्रत्युद्ययौ हरिः ।।

तं सदारोविनीतात्मा सुग्रीवः प्लवगाधिपः।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ।।

तमब्रवीद्रामवचः सौमित्रिरकुतोभयः।
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ।।

सभृत्यदारो राजेन्द्रसुग्रीवो वानराधिपः।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ।।

नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ।।

दिशः प्रस्थापिताः सर्वेविनीता हरयो मया।
सर्वेषां च कृतः कालो मासेऽभ्यागमने पुनः ।।

यैरियं सवना साद्रिः सपुरा सागराम्बरा।
विचेतव्या मही वीर सग्रामनगराकरा ।।

स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति।
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ।।

इत्युक्तो लक्ष्मणत्तेन कवानरेनद्रेण धीमता।
त्यक्त्वारोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ।।

सरामं सहसुग्रीवो माल्यवत्पुष्ठमास्थितम्।
भिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ।।

इत्येवंवानरेनद्रास्ते समाजन्मुः सहस्रशः।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ।।

आचख्युस्तत्र रामाय महीं सागरमेखलाम्।
विचितां न तु वैदेह्या दर्शनं रावणस् वा ।।

गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत् ।।

द्विमासोपरमे काले व्यतीते प्लवगास्ततः।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ।।

रक्षितंवालिना यत्तत्स्फीतं मधुवनं महत्।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ।।

वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः।
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ।।

तेषामपनयं श्रुत्वा मेने सकृतकृत्यताम्।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ।।

स तद्रामाय मेधावी शशंस प्लवगर्षभः।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ।।

हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ ।।

गतिं च मुखवर्णं च दृष्ट्वारामो हनूमतः।
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ।।

हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः।
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ।।

तानुवाचानतान्रामः प्रगृह्य सशरं धनुः।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ।।

अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः।
निहत्यसमरे शत्रूनाहृत्यजनकात्मजाम् ।।

अमोक्षयित्वावैदेहीमहत्वा च रणे रिपून्।
हृतदारोऽवधूतश्चनाहं जीवितुमुत्सहे ।।

इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ।।

विचित्य दक्षिणामाशां सपर्वतवनाकराम्।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहां ।।

प्रविशामो वयं तां तु बहुयोजनमायताम्।
अन्धकारां सुविपिनां गहनां कीटसेविताम् ।।

गत्वा सुमहदध्वानमादित्यस् प्रभां ततः।
दृष्टवन्तः स्म तत्रैवभवनं दिव्यमन्तरा ।।

गयस् किल दैत्यस् तदा सद्वेश्म राघव।
तत्रप्रभावती नाम तपोऽतप्यत तापसी ।।

तया दत्तानि भोज्यानिपानानिविविधानि च।
भुकत्‌वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ।।

निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः।
समीपे सह्यमलयौ दर्दुरं च महागिरिम् ।।

ततो मलयमारुह्य पश्यन्तो वरुणालयम्।
कविषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ।।

अनेकशतविस्तीर्णं योजनानां महोदधिम्।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ।।

तत्रानशनसंकल्पं कृत्वाऽऽसीना वयं तदा।
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ।।

ततः पर्वतशृङ्गाभं घोररूपं भयावहम्।
पक्षिणं दृष्टवन्तः स्म वैनतियेमिवापरम् ।।

सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ।।

संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः।
अन्योन्यस्पर्धया रूढावावामदित्यसत्पदम् ।।

ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः।
तस्मान्मे चिरदृष्टः स भ्राता गृध्रपतः प्रियः ।।

निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ।
`द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम्' ।।

तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः।
व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् ।।

स सम्पातिस्तदा राजञ्श्रुत्वासुमहदप्रियम्।
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ।।

कः सरामः कथं सीता जटायुश्च कथं हतः।
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ।।

तस्याहं सर्वमेवैतद्भवतो व्यसनागमम्।
प्रायोपवेशने चैवहेतुं विस्तरशोऽब्रुवम् ।।

सोऽस्मानाश्वासयामास वाक्येनानेन पक्षिराट्।
रावणो विदितो मह्यं लङ्का चास्य महापुरी ।।

दृष्टापारे समुद्रस्य त्रिकूटगिरिकन्दरे।
भवित्री तत्र वैदेही न रमेऽस्त्यत्रविचारणा ।।

इतितस्य वचः श्रुत्वा वयमुत्थाय सत्वराः।
सागरक्रमणे मन्त्रं मन्त्रयामः परंतप ।।

नाध्यवास्यद्यदा कश्चित्सागरस्य विलङ्घनम्।
ततः पितरमाविश्य पुप्लुवेऽहंमहार्णवम्।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ।।

उपवासतपःशीला भर्तृदर्शनलालसा।
जटिला मलदिग्धाङ्गीकृश दीना तपस्विन ।।

निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः।
उपसृत्याब्रवं चार्यामभिगम्य रहोगताम् ।।

सीते रामस्य दूतोऽहंवानरोमारुतात्मजः।
त्वद्दर्शनमभिप्रप्सुरिह प्राप्तो विहायसा ।।

राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ।
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ।।

कुशलंत्वाब्रवीद्रामःसीते सौमित्रिणा सह।
सखिभावाच् सुग्रीवः कुशलं त्वाऽनुपृच्छति ।।

क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह।
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ।।

मुहूर्तमिवच ध्यात्वा सीता मां प्रत्युवाच ह।
अवैमि त्वांहनूमन्तमविन्ध्यवचनादहम् ।।

अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः।
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ।।

गम्यतामिति चोक्त्वा मां सीता पादादिमं मणिम्।
घारिता येन वैदेही कालमेतमनिन्दिता ।।

प्रत्ययार्थं कथां चेमां कथयामास जानकी।
क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ ।।

भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्।
`एकाक्षिविकलः काकः सुदुष्टात्मा कृतश्चवै' ।।

ग्राहयित्वाऽहमात्मानं ततो दग्ध्वाच तां पुरीम्।
संप्राप्त इतितं रामः प्रियवादिनमार्चयत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि त्र्यशीत्यधिकद्विशततमोऽध्यायः ।। 283 ।।