आरण्यकपर्व

अध्यायः २७५

Aranyaka Parva (Sanskrit) · Adhyaya 275
अक्षर का आकार

मार्कण्डेय उवाच।

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ।।

आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ।।

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ।।

युधिष्ठिर उवाच।

कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह ।।

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि।
`त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः।'
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ।।

मार्कण्डेय उवाच।

अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः ।।

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ।।

रामस्य माता कौसल्या कैकेयी भरतस्य तु।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ ।।

विदेहराजो जनकः सीता तस्यात्मजा विमो।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ।।

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर ।।

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ।।

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ।।

पितरं स समुत्सृज्य पितामहमुपस्थितः।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ।।

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ।।

पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ।।

ईशानन तथा सख्यं पुत्रं च नलकूवरम्।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम् ।।

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः।
यक्षाणामाधिपत्यंच राजराजत्वमेव च ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ।। 275 ।।