आरण्यकपर्व
अध्यायः २७४
जनमेजय उवाच।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ।।
वैशंपायन उवाच।
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम्।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्टिरः ।।
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम्।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ।।
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित्।
संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम् ।।
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता।
अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः ।।
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम्।
भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः ।।
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ।।
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित्।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ।।
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः।
तस्याः संहरणात्पापः शिरसः केशवापनम् ।।
पराजयं च संग्रामे ससहाः समाप्तवान्।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम् ।।
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्।
दुःखश्चायं वने वासो मृगयायां च जीविका ।।
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम् ।।
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ।। 274 ।।