आरण्यकपर्व

अध्यायः २६३

Aranyaka Parva (Sanskrit) · Adhyaya 263
अक्षर का आकार

जनमेजय उवाच।

वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु।
रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह ।।

सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि।
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः।
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ।।

धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः।
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ।।

दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः।
एतदाचक्ष्व भगवन्वैशंपायन पृच्छतः ।।

वैशंपायन उवाच।

श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव।
दुर्योधनो महाराज तेषु पापमरोचयत् ।।

तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः।
नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु ।।

अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः।
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ।।

तमागतमभिप्रेक्ष्य मुनिं परमकोपनम्।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ।।

विधिवत्पूजयामास स्वयं किंकरवत्स्थितः।
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ।।

तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः।
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ।।

क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप।
इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात् ।।

न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्।
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ।।

कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः।
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ।।

वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः।
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ।।

आहचैनं दुराधर्षो वरदोऽस्मीति भारत ।।

वरं वरय भद्रं ते यत्ते मनसि वर्तते।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ।।

वैशंपायन उवाच।

एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः।
अमन्यत पुनर्जातमात्मानं स सुयोधनः ।।

प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ।।

अतिहर्षान्वितो राजन्वरमेनमयाचत।
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ।।

अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः।
वने वसति धर्मात्मा भ्रातृभिः परिवारितः।
गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव ।।

यदा च राजपुत्री सा सुकुमारी यशस्विनी।
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ।।

विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा।
तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि ।।

तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्।
दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः ।।

कृतार्थमपि चात्मानं तदा मेने सुयोधनः।
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ।।

कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा।
दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ।।

दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ।।

वैशंपायु उवाच।

इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः।
हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
द्रौपदीहरणपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।। 263 ।।