आरण्यकपर्व

अध्यायः २६२

Aranyaka Parva (Sanskrit) · Adhyaya 262
अक्षर का आकार

देवदूत उवाच।

महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्।
संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ।।

उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ।।

नातप्ततपसः पुंसो नामहायज्ञयाजिनः।
नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल ।।

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः।
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ।।

तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ।।

देवाः साध्यास्तथा विश्वे तथैव च महर्षयः।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ।।

एषां देवनिकायानां पृथक्‌पृथगनेकशः।
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ।।

त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः।
मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल ।।

`नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल।
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः' ।।

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ।।

बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ।।

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने।
न शोको न जरा तत्र नायासपरिदेवने ।।

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः।
सुकृतैस्तत्रपुरुषाः संभवन्त्यात्मकर्मभिः ।।

तैजसानि शरीराणि भवन्त्य्रोपपद्यताम्।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ।।

रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च।
तेषां न च रजोवस्त्रं बाधते तत्रवै मुने ।।

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः।
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ।।

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः।
सुखं संर्गजितस्तत्रवर्तयन्ते महामुने ।।

तेषां तथाविधानां तु लोकानां मुनिपुङ्गव।
उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः ।।

परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ।।

ऋभवो नाम तत्रान्ये देवानामपि देवताः।
तेषां लोकाः परतरे यान्यजन्तीह देवताः ।।

स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे।
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ।।

न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ।।

नासुखाः सुखकामास्ते देवदेवाः सनातनाः।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ।।

रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ।।

देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ।।

त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ।।

सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया।
तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ।।

एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ।।

कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि।
न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते ।।

सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत्।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ।।

असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः।
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ।।

संज्ञामोहश्चपततां रजसा च प्रधर्षणम्।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ।।

आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः।
नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम् ।।

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने।
शुभानुशययोगेन मनुष्येषूपजायते ।।

तत्रापि स महाभागः कुले महति जायते।
न चेत्संबुध्यते तत्रगच्छत्यधमतां ततः ।।

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ।।

[मुद्गल उवाच।

महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः।
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ।।

देवदूत उवाच।

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम्।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ।।

न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ।।

निर्ममा निरहंकारा निर्द्विन्द्वाः संयतेन्द्रियाः।
ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ।।]

एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ।।

व्यास उवाच।

एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह ।।

देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम्।
महादोषेण मे कार्यं न स्वर्गेण सुखेन चा ।।

पतनान्ते महादुःखं परितापः सुदारुणः।
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ।।

यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ।।

इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम्।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ।।

तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ।।

`निगृहीतेन्द्रियग्रामः समयोजयदात्मनि।
युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे' ।।

ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ।।

तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ।।

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ।।

पितृपैतामहं राज्यंप्राप्स्यस्यमितविक्रम।
वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः ।।

वैशंपायन उवाच।

स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम्।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
ब्रीहिद्रौणिकपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ।। 262 ।।