आरण्यकपर्व
अध्यायः २६
वैशंपायन उवाच।
वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ।।
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ।।
यजुषामृचां साम्नां च गद्यानां चैव सर्वशः।
आसीदुच्चार्यमाणानां निःस्वनो हृदयंगमः ।।
ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम्।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ।।
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम्।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ।।
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्।
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ।।
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ।।
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ।।
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ।।
ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ।।
नाब्राह्मणस्तात चिरं बुभूषे-
दिच्छन्नमं लोकममुं च जेतुम्।
विनीतधर्मार्थमपेतमोहं
लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ।।
चरन्नैश्रेयसं धर्मं प्रजापालनकारितम्।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ।।
अनूनमासीदसुरस्य कामै-
वैरोचनेः श्रीरपि चाक्षयाऽऽसीत्।
लब्ध्वा महीं ब्राह्मणसंप्रयोगा-
त्तेष्वाचरन्दुष्टमयथो व्यनश्यत् ।।
नाब्राह्मणं भूमिरियं सभूति-
र्वर्णं द्वितीयं भजते चिराय।
समुद्रनेमिर्नमते तु तस्मै
यं ब्राह्मणः शास्ति नयैर्विनीतम् ।।
कुञ्चरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्।
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ।।
ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदती ।।
यथा हि सुमहानग्निः कक्षं दहति सानिलः।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ।।
ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत्।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ।।
अलब्धलाभाय च लब्धवृद्धये।
यथार्हतीर्थप्रतिपादनाय।
यशस्विनं वेदविदं विपश्चितं
बहुश्रुं ब्राह्मणमेव वासयेत् ।।
ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ।।
वैशंपायन उवाच।
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमंपूजयन्।
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ।।
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ।।
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ।।
कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ।।
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः।
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाबिगमनपर्वणि षड्विंशोऽध्यायः ।। 26 ।।