आरण्यकपर्व
अध्यायः २५
वैशंपायन उवाच।
तत्काननं प्राप्य नरेन्द्रपुत्राः
सुखोचिता वासमुपेत्य कृच्छ्रम्।
विजह्रुरिनद्रप्रतिमाः शिवेषु
सरस्वतीसालवनेषु तेषु ।।
यतींश्च राजा स मुनींश्च सर्वां
स्तस्मिन्वने मूलफलैरुदग्रैः।
द्विजातिमुख्यानृषभः कुरूणां
संतर्पयामास महानुभावः ।।
इष्टीश्च पित्र्याणि तथा क्रियाश्च
महावने वसतां पाण्डवानाम्।
पुरोहितस्तत्र समृद्धतेजा-
श्चकार धौम्यः पितृवन्नृपाणाम् ।।
अपेत्य राष्ट्राद्वसतां तु तेषा-
मृषिः पुराणोऽतिथिराजगाम।
तमाश्रमं तीव्रसमृद्धतेजा
मार्कण्डेयः श्रीमतां पाण्डवानाम् ।।
तमागतं ज्वलितहुताशनप्रभं
महामनाः कुरुवृषभो युधिष्ठिरः।
अपूजयत्सुरऋषिमानवार्चितं
महामुनिं ह्यनुपमसत्ववीर्यवान् ।।
स सर्वविद्द्रौपदीं वीक्ष्य दीनां
युधिष्टिरं भीमसेनार्जुनौ च।
संस्मृत्यरामं मनसा महात्मा
तपस्विमध्येऽस्मयतामितौजाः ।।
तं धर्मराजो विमना इवाब्रवी-
त्सर्वे ह्रिया सन्ति तपस्विनोऽमी।
भवानिदं किं स्मयतीव हृष्ट-
स्तपस्विनां पश्यतां मामुदीक्ष्य ।।
मार्कण्डेय उवाच।
न तात हृष्यामि न च स्मयामि
प्रहर्षजो मां भजतेन दर्पः।
तवापदं त्वद्य समीक्ष्य रामं
सत्यव्रतं दाशरथिं स्मरामि ।।
स चापि राजा सह लक्ष्मणेन
वने निवासं पितुरेव शासनात्।
धन्वी चरन्पार्थ मयैव दृष्टो
गिरे पुरा ऋष्यमूकस्य सानौ ।।
सहस्रनेत्रप्रतिमो महात्मा
यमस्य नेता नमुचेश्च हन्ता।
पितुर्निदेशादनघः स्वधर्मं
चरन्वने दाशरथिश्चकार ।।
स चापि शक्रस् समप्रभावो
महानुभावः समरेष्वजेयः।
विहाय भोगानचरद्वनेषु
नेशे बलस्येति चरेदधर्मम् ।।
भापाश्च नाभागभगीरथादयो
महीमिमां सागरान्तां विजित्य।
सत्येन तेऽप्यजयस्तात लोका-
न्नेशे बलस्येति चरेदधर्मम् ।।
अलर्कमाहुर्नवर्य सन्तं
सत्यव्रतं काशिकरूशराजम्।
विहाय राज्यानि वसूनि चैव
नेशे बलस्येति चरेदधर्मम् ।।
धात्रा विधिर्यो विहितः पुराणै-
स्तं पूजयन्तो नरवर्य सन्तः।
सप्तर्षयः पार्थ दिवि प्रभान्ति
नेशे बलस्येति चरेदधर्मम् ।।
महाबलान्पर्वतकूटमात्रा-
न्विषाणिनः पश्य गजान्नरेन्द्र।
स्थितान्निदेशे नरवर्य धातु-
र्नेशे बलस्येति चरेदधर्मम् ।।
सर्वाणि भूतानि नरेन्द्र पश्य
तथा यथावद्विहितं विधात्रा।
स्वयोनितः कर्म सदाचरन्ति
नेसे बलस्येति चरेदधर्मम् ।।
सत्येनं धर्मेण यथार्हवृत्त्या
ह्रिया तथा सर्वभूतान्यतीत्य।
यशश्च तेजश्च तवापि दीप्तं
विभावसोर्भास्करस्येव पार्त ।।
यथाप्रतिज्ञं च महानुभाव
कृच्छ्रं वने वासमिमं निरूष्य।
ततः श्रियं तेजसा तेन दीप्ता-
मादास्वसे पार्थिव कौरेवभ्यः ।।
वैशंपायन उवाच।
तमेवमुक्त्वा वचनं महर्षि-
स्तपस्विमध्ये सहितं सुहृद्धिः।
आमन्त्र्य धौम्यं सहितांश्च पार्थां-
स्ततः प्रतस्थे दिशमुत्तरां सः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि पञ्चविंशोऽध्यायः ।। 25 ।।