आरण्यकपर्व
अध्यायः २३
वैशंपायन उवाच।
तस्मिन्दशार्हाधिपतौ प्रयाते
युधिष्ठिरो भीमसेनार्जुनौ च।
यमौ च कृष्ण च पुरोहितश्च
रथान्महार्हान्परमाश्वयुक्तान् ।।
अस्थाय वीराः सहिता वनाय
प्रतस्थिरे भूतपतिप्रकाशाः।
हिरण्यनिष्कान्वसनानि गाश्च
गदाय शिक्षाक्षरमन्त्रविद्भ्यः ।।
प्रेष्याः पुरो विंशतिरात्तशस्त्रा
धनूंषि शस्त्राणि शरांश्च दीप्तान्।
मौर्वीश्च यन्त्राणि च सायकांश्च
सर्वे समादाय जघन्यमीयुः ।।
तत्सतु वासांसि च राजपुत्र्या
धात्र्यश्च दास्यश्च विभूषणं च।
तदिन्द्रसेनस्त्वरितः प्रगृह्य
जघन्यमेवोपययौ रथेन ।।
ततः कुरुश्रेष्ठमुपेत्य पौराः
प्रदक्षिणं चक्रुरदीनसत्वाः।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना
मुख्याश्च सर्वे कुरुजाङ्गलानाम् ।।
स चापि तानभ्यवदत्प्रसन्नः
सहैव तैर्भ्रातृभिर्धर्मराजः।
तस्थौ च तत्राधिपतिर्महात्मा
दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ।।
पितेव पुत्रेषु स तेषु भावं
चक्रे कुरूणामृषभो महात्मा।
ते चापि तस्मिन्भरतप्रबर्हे
तथा बभूवुः पितरीव पुत्राः ।।
ततस्तमासाद्य महाजनौघाः
कुरुप्रवीरं परिवार्य तस्थुः।
हानाथ हाधर्म इति ब्रुवाणा
हीताश्च सर्वेऽऽश्रुमुखा बभूवुः ।।
वरः कुरूणामधिपः प्रजानां
पितेव पुत्रानपहाय चास्मान्।
पौरानिमाञ्जानपदांश्च सर्वान्
हित्वा प्रयातः क्वनु धर्मराजः ।।
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं
धिक्सौबलं पापमतिं च कर्णम्।
अनर्थमिच्छन्ति नरेन्द्र पापा
ये धर्मनित्यस्य सतस्तवोग्राः ।।
स्वयं निवेश्याप्रतिमं महात्मा
पुरं महादेवपुरप्रकाशम्।
शतक्रतुप्रस्थममोघकर्मा
हित्वा प्रयातः क्वनु धर्मराजः ।।
चकार यामप्रतिमां महात्मा
सभां मयो देवसभाप्रकाशाम्।
तां देवगुप्तामिव देवमायां
हित्वाप्रयातः क्वनु धर्मराजः ।।
तान्धर्मकामार्थविदुत्तमौजा
बीभत्सुरुच्चैः सहितानुवाच।
आदास्यते वासमिमं निरुष्य
रवनेषु राजा द्विषतां यशांसि ।।
द्विजातिमुख्याः सहिताः पृथक्व
भवद्भिरासाद्य तपस्विनश्च।
प्रसाद्य धर्मार्थविदश्च वाच्या
यथार्थसिद्धिः परमा भवेन्नः ।।
इत्येवमुक्ते वचनेऽऽर्जुनेन
ते ब्राह्मणाः सर्ववर्णाश्च राजन्।
मुदाऽभ्यनन्दन्सहिताश्च चक्रुः
प्रदक्षिणं धर्मभृतांवरिष्ठम् ।।
आमन्त्र्य पार्थं च वृकोदरं च
धनंजयं याज्ञसेनीं यमौ च।
प्रतस्थिरे राष्ट्रमरपेतहार्षा
युधिष्ठिरेणानुमता यथास्वम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि त्रयोविंशोऽध्यायः ।। 23 ।।