आरण्यकपर्व
अध्यायः २२
वासुदेव उवाच।
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ।।
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः।
प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ।।
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह।
अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ।।
अथ दानवसङ्घास्ते विकृताननमूर्धजाः।
उदक्रोशन्महाराज धिष्ठिते मयि भारत ।।
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे।
अयोजयं तद्वधाय ततः शब्द उपारमत् ।।
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः।
शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः ।।
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ।।
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत।
नादयामासुरसुरास्ते चापि निहता मया ।।
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ।।
ततो लोकान्तकरणो दानवो दारुणाकृतिः।
शिलावर्षेण महता सहसा मां समावृणोत् ।।
सोहं पर्वतवर्षेण वध्यमानः समन्ततः।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ।।
ततोऽहं पर्वतचितः सहयः सहसारथिः।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ।।
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा।
ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ।।
ततो हाहाकृतमभूत्सर्वं किल विशांपते।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ।।
ततो विषण्णमनसो मम राजन्सुहृज्जनाः।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ।।
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ।।
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ।।
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः।
हया मम महाराज वेपमाना इवाभवन् ।।
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ।।
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः ।।
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।।
मार्दवं सखितां चैव साल्वादद्य व्यपाहर।
जहि साल्वं महाबाहो मैनं जीवय केशव ।।
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा।
योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ।।
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ।।
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून्।
स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ।।
नैष मार्दवसाध्यो वै मतो नापि सखा तव।
येन त्वं योधितो वीर द्वारका चावमर्दिता ।।
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः।
तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ।।
वधाय साल्वराजस्य सौभस्य च निपातने।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ।।
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत्।
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्।
योजयं तत्रधनुषा दानवान्तकरं रणे ।।
यक्षाणां राक्षसानां च दानवानां च संयुगे।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ।।
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ।।
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ।।
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा।
द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः ।।
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ।।
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ।।
तस्मिन्निपतिते सौभे चक्रमागात्करं मम।
पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ।।
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ।।
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ।।
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ।।
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ।।
एवं निहत्य समरे सौभं साल्वं निपात्य च।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ।।
तदेतत्कारणं राजन्नागमं नागसाह्वयम्।
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ।।
मय्यागतेऽथवा वीर द्यूतं न भविता तथा।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ।।
वैशंपायन उवाच।
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ।।
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ।।
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ।।
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ।।
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ।।
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ।।
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ।।
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ।।
ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ।।
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ।।
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः।
शशास पुरुषान्काले रथान्योजयतेति वै ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि द्वाविंशोऽध्यायः ।। 22 ।।