आरण्यकपर्व

अध्यायः १९२

Aranyaka Parva (Sanskrit) · Adhyaya 192
अक्षर का आकार

देव उवाच।

कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः।
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विमृजाम्यहम् ।।

पितृभक्तोसि विप्रर्षे मां चैव शरणं गतः।
ततो दृष्टोस्मि ते साक्षाद्ब्रह्यचर्यं च ते महत् ।।

आपो नारा इति प्रोक्तास्तासां नाम कृतं मया।
तेन नारायणप्युक्तो मम तत्त्वयनं सदा ।।

अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम् ।।

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ।।

अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ।।

अग्निरास्यं क्षिति पादौ चन्द्रादित्यौ च लोचने।
द्यौर्मूर्धा मे दिशः श्रोत्रे तथाऽऽपः स्वेदसंभवाः।
सकलं च नभः कायो वायुर्मनसि मे स्थितः ।।

मया क्रतुशतैरिष्टं बहुभिस्त्वाप्तदक्षिणैः।
यजन्ते वेदविदुषो मां देवसदने स्थितम् ।।

पृथिव्यां क्षत्रियेन्द्राश् पार्तिवाः स्वर्गकाङ्क्षिणः।
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया ।।

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्।
शेषो भूत्वाऽहमेवैतां धारयामि वसुंधराम् ।।

वाराहं रूपमास्थाय मयेयं जगती पुरा।
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ।।

अग्निश्च बडबावक्रे भूत्वाऽहं द्विजसत्तम।
पिबाम्यापः सदा विद्वंस्ताश्चैव विसृजाम्यहम् ।।

ब्रह्म वक्रं भुजौ क्षत्रमूरू मे संस्थिता विशः।
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ।।

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः।
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ।।

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः।
कामक्रोधद्वेषमुक्ता निःसंज्ञा वीतकल्मषाः ।।

सत्वस्था निरहंकारा नित्यमध्यात्मकोविदाः।
मामेव सततं विप्राश्चिन्तयन्त उपासते ।।

अहं संवर्तको वह्निरहं संवर्तको यमः।
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ।।

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले।
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ।।

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः।
वसनं शयनं चैव विलयं चैव विद्धि मे ।।

मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये।
कामं क्रोधं च हर्षं च भयं मोहं तथैव च।
ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम ।।

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्।
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ।।

मद्विधानेन विहिता मम देहविहारिणः।
मयाऽभिभूतविज्ञाना विचेष्टन्ते न कामतः ।।

सम्यग्वेदमधीयाना यजन्ते विविधैर्मखैः।
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ।।

---न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः।
---भाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ।।

तस्मान्महाफलंविद्धि पदं सुकृतकर्मणः।
सुदुष्प्रापं विमूढानां मार्गं योगैर्निषेवितम् ।।

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।।

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः।
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ।।

तदाऽहंसंप्रसूयामि गृहेषु शुभकर्मणाम्।
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ।।

सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान्।
स्थावराणि च भूतानि संहराम्यात्ममायया ।।

कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्।
आविश्य मानषं देहं मर्यादाबन्धकारणात् ।।

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम।
श्यामो द्वापरमासाद्य कृष्णः कलियुगे तथा ।।

त्रयो भागा ह्यधर्मस् तस्मिन्काले भवनति च।
`यदा भवति मे वर्णः कृष्णो वै द्विजसत्तम्' ।।

अन्तकाले च संप्राप्ते कालो भूत्वाऽतिदारुणः।
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ।।

अहं त्रिवर्त्मा विश्वात्मा सर्वलोकसुखावहः।
अजितः सर्वगोऽनन्तो हृषीकेश उरुक्रमः।
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम् ।।

शमनं सर्वभूतानां सर्वकालकृतोद्यमम्।
एवं प्रणिहितः सम्यङ्मायया मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ।।

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ।।

यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज।
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ।।

यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्।
विहित सर्वथैवासौ ममात्मा भूतभावनः ।।

अर्धं मम शरीरस्य सर्वलोकपितामहः।
अहं नारायणो नाम शङ्खचक्रगदाधरः ।।

यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम्।
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ।।

एवं सर्वमहं कालमिहासे मुनिसत्तम।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ।।

मया च दत्तो विप्राग्र्य वरस्ते ब्रह्मरूपिणा।
असकृत्परितष्टेन विप्रर्षिगणपूजित ।।

सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्।
विक्लबोसि मया ज्ञातस्ततस्ते दर्शितं जगत् ।।

अभ्यन्तरं शरीरस्य प्रविष्टोसि यदा मम।
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ।।

ततोसि वक्राद्विप्रर्षे द्रुतं निःसारितो मया।
आख्यातस्ते मया चात्मा दुर्ज्ञे योपि सुरासुरैः ।।

यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः।
तावत्त्वमिह विप्रर्षे विस्रब्धश्चर वै सुखम् ।।

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे।
एकीभूतः प्रवेक्ष्यामि शरीराणि द्विजोत्तम ।।

आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च।
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ।।

मार्कण्डेय उवाच।

इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः।
प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः ।।

एवं दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये।
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतांवरः ।।

यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः।
स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ।।

अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्।
दीर्गमायुश्च कौन्तेय स्वच्छन्दमरणं मम ।।

स एष कृष्णो वार्ष्णेय पुराणपुरुषो विभुः।
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ।।

एष धाता विधाता च संहर्ता चैव शाश्वतः।
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ।।

दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता।
आदिदेवमयं जिष्णुं पुरुषं पीतवाससम् ।।

सर्वेषामेव भूतानां पिता माता च माधवः।
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ।।

वैशंपायन उवाच।

एवमुक्तास्च ते पार्ता यमौ च पुरुषर्षभौ।
द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम् ।।

स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना।
सान्त्वयामास मानार्हो मन्यमानो यथाविधि ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि
द्विनवत्यधिकशततमोऽध्यायः ।। 192 ।।