आरण्यकपर्व

अध्यायः १९१

Aranyaka Parva (Sanskrit) · Adhyaya 191
अक्षर का आकार

वैशंपायन उवाच।

ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम्।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ।।

नैके युगसहस्रान्तास्त्वया दृष्टा महामुने।
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ।।

वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ।।

अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ।।

प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ।।

चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ।।

त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ।।

स्वप्रमाणमथो विप्र त्वया कृतमनेकशः।
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ।।

नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे ।।

भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्।
कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः।
रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ।।

तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी।
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ।।

यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ।।

तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ।।

शयानममितात्मानं पद्मे पद्मनिकेतनम्।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ।।

एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम।
तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां ।।

अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम।
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ।।

मार्कण्डेय उवाच।

हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च।
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ।।

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः।
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ।।

अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते।
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ।।

एष कर्ता न क्रियते कारणं चापि पौरुषे।
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ।।

सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ।।

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।।

वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं ।।

तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ।।

सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्।
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ।।

सन्ध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय।
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ।।

एषा द्वादशसाहस्री युगाख्या परिकीर्तिता।
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ।।

विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते।
लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः ।।

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ।।

यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ।।

ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः।
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ।।

निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः।
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ।।

अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ।।

बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप।
मृषानुशासिनः पापा मृषावादपरायणाः ।।

आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः।
काम्भोजा बाह्लिकाः शूराऽऽ भीरस्तथा नरोत्तमा ।।

न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति।
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ।।

अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः।
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ।।

बहुशून्या जनपदा मृगव्यालावृता दिशः।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ।।

भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः।
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ।।

न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ।।

बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ।।

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ।।

अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ।।

ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम्।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ।।

लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ।।

कराभारभयाद्भीता गृहस्थाः परिमोषकाः।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ।।

मित्या च नखरोमाणि धारयन्ति तदा द्विजाः।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ।।

आश्रमेषु वृथाचार पारपा गुरुतल्पगाः।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ।।

`पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः'।
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ।।

यथर्तुवर्षी भगवान्न तथा पाकशासनः।
न चापि सर्वभीजानि सम्यग्रोहन्ति भारत ।।

फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते।
हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः।
अधर्मफलमत्यर्थं तदा भवति चानघ ।।

तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः।
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ।।

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ।।

धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः।
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ।।

अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ।।

नगराणआं विहारेषु विधर्माणो युगक्षये।
अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत ।।

संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ।।

हर्तुं व्यवसिता राजन्पापाचारसमनविताः।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ।।

पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा।
नगराणां विहारेषु चैत्येष्वपि च शेरते ।।

सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ।।

भवन्ति षोडशे वर्षे नराः पलितिनस्तथा।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ।।

क्षीणायुषो महाराज तरुणा वृद्धशीलिनः।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ।।

विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन्।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ।।

वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप।
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ।।

तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ।।

ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ।।

ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ।।

यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ।।

ततः संवर्तको वह्निर्वायुना सह भारत।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ।।

ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम्।
रदेवदानवयक्षाणां भयं जनयते महत् ।।

निरदहन्नागलोकं च यच्च किंचित्क्षिताविह।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ।।

ततो योजनविंशानां सहस्राणि शतानि च।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ।।

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ।।

ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ।।

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ।।

केचिद्धारिद्रसंकाशाः कारण्डवनिभास्तथा।
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ।।

केचित्पुरवराकाराः केचिद्गजकुलोपमाः।
केचिदञ्जनसंकाशाः केचिन्मकरसन्निभाः ।।

विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः।
घोररूपा महाराज घोरस्वननिनादिताः ।।

ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम्।
`गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः' ।।

तैरियं पृथिवी सर्वा सपर्वतवनाकरा।
आपूर्यते महाराज सलिलौघपरिप्लुता ।।

ततस्ते जलदा घोरा राविणः पुरुषर्षभ।
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ।।

वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम्।
सुघोरमशिवं रौद्रं नाशयनति च पावकम् ।।

ततो द्वादशवर्षाणि पयोदास्त उपप्लवे।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ।।

ततः समुद्रः स्वां वेलामतिक्रामति भारत।
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ।।

सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ।।

कततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ।।

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणए यक्षराक्षसवर्जिते ।।

निर्मनुष्ये महीपाल निःश्वापदमहीरुहे।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ।।

एकार्णवे जले घोरे विचरन्पार्थिवोत्तम।
अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः ।।

ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप।
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ।।

ततः कदाचित्पश्यामि तस्मिन्सलिलसंनिघौ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ।।

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ।।

उपविष्टं महाराज पद्मेन्दुसदृशाननम्।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ।।

ततो मे पृतिवीपाल विस्मयः सुमहाभूत्।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ।।

तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ।।

अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः।
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ।।

ततो मामब्रवीद्बालः स पद्मनिभलोचनः।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ।।

जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम्।
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ।।

अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम।
आस्खेह विहितो वासः प्रसादस्ते कृतो मया ।।

ततो बालेन तेनैव मुक्तस्यासीत्तदा मम।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ।।

ततो बालेन तेनास्यं सहसा विवृतं कृतम्।
तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः ।।

ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ।।

गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्।
चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम् ।।

सिन्धुं चैव विपाशां च नदीं गोदावरीमपि।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ।।

नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ।।

वितस्तां च महाराज कावेरीं च महानदीम्।
`तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्'।
शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि ।।

एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ।।

ततः समुद्रं पश्मामि यादोगणनिषेवितम्।
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ।।

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ।।

पश्यामि च महीं राजन्काननैरुपशोभिताम्।
`सपर्वतवनद्वीपां निम्नगाशतसंकुलाम् ।।

यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः।
क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ।।

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ।।

ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ।।

निषधं चापि पश्यामि श्वेतं च रजतान्वितम्।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ।।

मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्।
पश्यामि च महाराज मेरु कनकपर्वतम् ।।

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ।।

एते चान्ये च बहवो यावन्तः पृथिवीधराः।
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ।।

सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप।
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ।।

कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ।।

साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा।
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ।।

गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते।
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ।।

सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः।
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ।।

सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ।।

अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्।
न च पश्यामि यस्याहं देहस्यान्तं कदाचन ।।

सततं धावमानश्च चिन्तयानो विशांपते।
`भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्'।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ।।

ततस्तमेव शरणं गतोस्मि विधिवत्तदा।
वरेण्यं वरदं देवं मनसा कर्मणैव च ।।

ततोऽहं सहसा राजन्वायुवेगेन निःसृतः।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ।।

ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ।।

ते नैव बालवेषेण श्रीवत्सकृतलक्षणम्।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ।।

ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ।।

अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ।।

मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा।
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ।।

तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ।।

प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ।
दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः ।।

विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह।
दृष्टो मया स भूतात्मा देवः कमललोचनः ।।

तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम्।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ।।

आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव।
दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते ।।

तव देव शरीरस्था देवदानवराक्षसाः।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ।।

त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते।
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ।।

निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो।
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं ।।

इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ।।

किमर्थं च जगत्सर्वं शरीरस्थं तवानघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ।।

एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया।
त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम्।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ।।

इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः।
सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मर्कण्डेयसमास्यापर्वणि
एकनवत्यधिकशततमोऽध्यायः ।। 191 ।।