आरण्यकपर्व
अध्यायः १८५
वैशंपायन उवाच।
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ।।
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ।।
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ।।
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः।
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ।।
बहुवत्सरजीवी च मार्कण्डेयो महातपाः।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ।।
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः।
शैब्यसुग्रीवयुक्तेन रथेन रथिनारः ।।
मघवानिव पौलोम्या सहितः सत्यभामया।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ।।
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ।।
पूजयामास धौम्यं च यमाभ्यामभिवादितः।
परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत् ।।
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमः ।।
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे।
पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया ।।
ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ।।
कृष्णस्तु पार्थेन समेत्य विद्वान्
धनंजयेनासुरमर्दनेन।
बभौ यथा भूतपतिर्महात्मा
समेत्य साक्षाद्भगवान्गुहेन ।।
ततः समस्तानि किरीटमाली
वनेषु वृत्तानि गदाग्रजाय।
उक्त्वा यथावत्पुनरन्वपृच्छ-
त्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ।।
धौम्यं च कृष्णां च युधिष्ठिरं च
यमौ च भीमं च दशार्हसिंहः।
उवाच दिष्ट्या भवतां शिवेन
प्राप्तः किरीटी मुदितः कृतास्त्रः ।।
स पूजयित्वा मधुहा यथाव-
त्पार्थांश्च कृष्णां च पुरोहितं च।
उवाच राजानमभिप्रशंसन्
युधिष्ठिरं तेन सहोपविश्य ।।
धर्मः परः पाण्डव राज्यलाभा-
त्तस्यादिमाहुस्तप एव राजन्।
सत्यार्जवाभ्यां चरता स्वधर्मं
जितस्त्वयाऽचं परश्च लोकः ।।
अधीतमग्रे चरता व्रतानि
सम्यग्धनुर्वेदमवाप्य कृत्स्नम्।
क्षात्रेण धर्मेण वसूनि लब्ध्वा
सर्वे ह्यवाप्ताः क्रतवः पुराणाः ।।
न ग्राम्यधर्मेषु रतिस्तवास्ति
कामान्न किंचित्कुरुषे नरेन्द्र।
न चार्तलोभात्प्रजहासि धर्मं
तस्मात्प्रभावादसि धर्मराजः ।।
दानं च सत्यं च तपश्च राजन्
क्षमा च शान्तिश्च दमो धृतिश्च।
अवाप्य राष्ट्राणि वसूनि भोगा-
नेषा परा पार्थ सदा रतिस्ते ।।
हृतं च देशं कुरुजाङ्गलानां
कृष्णां सभायामशां च पश्यन्।
अपेतधर्मव्यवहारवृत्तं
सहेत तत्पाण्डव कस्त्वदन्यः ।।
असंशयं सर्वसमृद्धकामः
क्षिप्रं प्रजाः पालयितासि सम्यक्।
अद्यैव तन्निग्रहणं कुरूणां
यदि प्रतिज्ञा भवतः समाप्ता ।।
प्रोवाच कृष्णामपि याज्ञसेनीं
दशार्हभर्ता सहितः सुहृद्भिः।
कदिष्ट्या समग्राऽसि धनंजयेन
समागतेत्येवमुवाच कृष्णः ।।
कृष्णे धनुर्वेदरतिप्रदाना-
स्तवात्मजास्ते शिशवः शुशीलाः।
सद्भिः सदैवाचरितं समाधिं
चरन्ति पुत्रास्तव याज्ञसेनि ।।
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः
पित्रा च कृष्णे तव सोदरैश्च।
न यज्ञसेनस्य न मातुलानां
गृहेषु बाला रतिमाप्नुवन्ति ।।
आनर्तमेवाभिमुखाः शिवेन
गत्वाधनुर्वेदरतिप्रधानाः।
तवात्मजा वृष्णिपुरं प्रविश्य
न दैवतेभ्यः स्पृहयन्ति कृष्णे ।।
यथा त्वमेवार्हसि तेषु वृत्तं
प्रयोक्तुमार्या च यथैव कुन्ती।
तेष्वप्रमादेन तथा करोति
तथैव भूयश्च तथा सुभद्रा ।।
यथाऽनिरुद्धस्य यथाऽभिमन्यो-
र्यथा सुनीथस्य यथैव भानोः।
तथा विनेता च गतिश्च कृष्णे
तवात्मजानामपि रौक्मिणेयः ।।
गदासिचर्मग्रहणेषु शूरा-
नस्त्रेषु शिक्षासु रथाश्वयाने।
सम्यग्विनेता विनयेदतन्द्री-
स्तांश्चाभिमन्युं च सदा कुमारान् ।।
स चापि सम्यक्प्रणिधाय शिक्षां
शस्त्राणइ चैषां विधिवत्प्रदाय।
तवात्मजानां च तथाऽभिमन्योः
पराक्रमैस्तुष्यति रौक्मिणेयः ।।
यथा विहारं प्रसमीक्षमाणाः
प्रयान्ति पुत्रास्तव याज्ञसेनि।
एकैकमेषामनुयान्ति यत्र
रथाश्च यानानि च दन्तिनश्च ।।
अथाब्रवीद्धर्मराजं तु कृष्णो
दशार्हयोधाः कुकुरान्धकाश्च।
एते निदेशं तव पालयन्त-
स्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ।।
आवर्ततां कार्मुकवेगवाता
हलायुधप्रग्रणा मधूनाम्।
सेना तवार्थेषु नरेन्द्र यत्ता
ससादिपत्त्यश्वरथा सनागा ।।
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः
सुयोधनः पापकृतां वरिष्ठः।
स सानुबन्धः ससुहद्गणश्च
भौमस्य सौबाधिपतेश्च मार्गम् ।।
कामं तथा तिष्ठ नरेन्द्र तस्मि-
न्यथा कृतस्ते समयः सभायाम्।
दाशार्हयोधैस्तु हतारियोधं
प्रतीक्षतां नागपुरं प्रभग्नम् ।।
व्यपेतमन्युर्व्यपनीतपाप्मा
विहृत् यत्रेच्छसि तत्र कामम्।
ततः समृद्धिप्रभवं विशोकः
प्रपत्स्यसे नागपुरं सराष्ट्रम् ।।
ततस्तदाज्ञाय मतं महात्मा
यथावदुक्तं पुरुषोत्तमेन।
प्रशस्य विप्रेक्ष्य च धर्मराजः
कृताञ्जलिः केशवमित्युवाच ।।
असंशयं केशव पाण्डवानां
भवान्गतिस्त्वच्छरणा हि पार्थाः।
कालोदये तच्च ततश्च भूयः
कर्ता भवान्कर्म न संशयोस्ति ।।
यथाप्रतिज्ञं विहृतश्च कालः
सर्वाः समा द्वादश निर्जनेषु।
अज्ञातचर्यां विधिवत्समाप्य
भवद्गताः केशव पाण्डवेयाः ।।
एषैव बुद्धिर्जुषतां सदा त्वां
सत्ये स्थिताः केशव पाण्डवेयाः।
सदानधर्माः सजलाः सदाराः
सबान्धवास्त्वच्छरणा हि पार्थाः ।।
वैशंपायन उवाच।
तथा वदतिवार्ष्णेये धर्मराजे च भारत।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ।।
अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः।
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ।।
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्।
उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः ।।
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ।।
शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः।
द्रौपदी सत्यभामा च तथाऽहंपरमं वचः ।।
पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान्।
राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः ।।
वैशंपायन उवाच।
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ।।
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः।
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ।।
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ।।
उवाच चैनं कालज्ञं स्मयन्निव सनारदः।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ।।
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः।
क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति ।।
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः।
मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि
पञ्चाशीत्यधिकशततमोऽध्यायः ।। 185 ।।