आरण्यकपर्व

अध्यायः १८४

Aranyaka Parva (Sanskrit) · Adhyaya 184
अक्षर का आकार

वैशंपायन उवाच।

निदाघान्तकरः कालः सर्वभूतसुखावहः।
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ।।

छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः।
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ।।

तपात्ययनिकेताश्च शतशोऽथ सहस्रशः।
अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ।।

विरूढशष्पा धरणी मत्तदंशसरीसृपा।
बभूव पयसा सिक्ता शान्तधूमरजोगणा ।।

न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते।
समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ।।

क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः।
सिन्धवः शोभयांचक्रुः काननानि तपात्यये ।।

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः।
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ।।

स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह।
मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ।।

तदा बहुविधाकारा प्रावृण्मेघानुनादिता।
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ।।

क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत्।
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ।।

विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत्।
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ।।

दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः।
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ।।

कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः।
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ।।

ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्।
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ।।

तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी।
तत्रैव वसतामासीत्कार्तिकी जनमेजय ।।

पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः।
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ।।

तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः।
सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि
चतुरशीत्यधिकशततमोऽध्यायः ।। 184 ।।