आरण्यकपर्व

अध्यायः १५५

Aranyaka Parva (Sanskrit) · Adhyaya 155
अक्षर का आकार

भीम उवाच।

पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ।।

अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम्।
अनिलोढमितो नूनं सा बहूनि परीप्सति ।।

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ।।

राक्षसा ऊचुः।

आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ।।

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर।
आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ।।

गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव।
`यक्षाधिपस्यानुमते कुबेरस् महात्मनः' ।।

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ।।

तमनादृत्य पद्मानि जिहीर्षसि बलादिह।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ।।

[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च।
नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं ।।

भीमसेन उवाच।

राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके।
दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ।।

न हि याचन्ति राजान एष धर्मः सनातनः।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ।।

इयं च नलिनी रम्या जाता पर्वतनिर्झरे।
नेयं भवनमासाद्यकुबेरस्य महात्मनः ।।

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च।
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ।।

इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत।
तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ।।

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ।।

कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः।
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ।।

गृह्णीत बध्नीत विकर्ततेमं
पचाम खादाम च भीमसेनम्।
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते
शस्त्राणि चोद्यम्य विवृत्तनेत्राः ।।

प्रगृह्यतानभ्यपतत्तरस्वी
ततोऽब्रवीत्तिष्ठत तिष्ठतेति ।।
ते तं तदा तोमरपट्टसाद्यै-
र्व्याविद्धशस्त्रैः सहसा निपेतुः।

जिघांसवः क्रोधवशाः सुभीमा
भीमं समन्तात्परिवव्रुरुग्राः।
जिघांसवः क्रोधवशाः सुभीमा
भीमं समन्तात्परिवब्रुरुग्राः ।।

वातेन कुन्त्यां बलवान्सुजातः
शूरस्तरस्वी द्विषतां निहन्ता।
सत्ये च धर्मे च रतः सदैव
पराक्रमे शत्रुभिरप्रधृष्यः ।।

तेषां स मार्गान्विविधान्महात्मा
निहत्य शस्त्राणि च शास्त्रवाणाम्।
यथा प्रवीरान्निजघान भीमः
परश्शतान्पुष्करिणीसमीपे ।।

ते तस्य वीर्यं च बलं च दृष्ट्वा
विद्याबलंबाहुबलं तथैव।
अशक्नुवन्तः सहितं समन्ता-
द्द्रुतं प्रवीरा सहसा निवृत्ताः ।।

विदीर्यमाणास्तत एव तूर्ण-
माकाशमास्थाय विमूढसंज्ञाः।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते
भीमार्दिताः क्रोधवशाः प्रभग्नाः ।।

स शक्रवद्दानवदैत्यसङ्घान्
विक्रम्य जित्वा च रणेऽरिसङ्घान्।
विगाह्यतां पुष्करीणीं जितारिः
कामं स जग्राह ततोऽम्बुजानि ।।

ततः स पीत्वाऽमृतकल्पमम्भो
भूयो बभूवोत्तमवीर्यतेजाः।
उत्पाट्य जग्राह ततोऽम्बुजानि
सौगन्धिकान्युत्तमगन्धवन्ति ।।

ततस्तु ते क्रोधवशाः समेत्य
धनेश्वरं भीमबलप्रणुन्नाः।
भीमस्य वीर्यं च बलं च संख्ये
यथावदाचख्युरतीव दीनाः ।।

तेषां वचस्तत्तु निशाम्य देवः
प्रहस्य रक्षांसि ततोऽभ्युवाच।
गृह्णातु भीमो जलजानि कामं
कृष्णानिमित्तं विदितं ममैतत् ।।

ततोऽभ्यनुज्ञाय धनेश्वरं ते
जग्मुः कुरूणां प्रवरं विरोषाः।
भीमं च तस्यां ददृशुर्नलिन्यां
यथोपजोषं विहरन्तमेकम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि
पञ्चपञ्चाशदधिकशततमोऽध्यायः ।। 155 ।।