आरण्यकपर्व
अध्यायः १३६
अष्टावक्र उवाच।
अत्रोग्रसेनसमितेषु राजन्
समागतेष्वप्रतिमेषु राजसु।
न मे विवित्सान्तरमस्ति वादिनां
महाजने हंसविवादिनामिव ।।
न मोक्ष्यसे वै वदमानो निमज्जन्
जलं प्रपन्नः सरितामिवाधनः।
हुताशनस्येव समिद्धतेजसः
स्थिरो भवस्वेह ममाद्य वन्दिन् ।।
वन्द्युवाच।
व्याघ्रं शयानं प्रति मा प्रबोध
आशीविषं सृक्विणी संलिहानम्।
पदा हतस्येह शिरोभिहत्य
नादष्टो वै मोक्ष्यसे तन्निबोध ।।
यो वै दर्पात्संहननोपपन्नः
सुदुर्बलः पर्वतमाविहन्ति।
तस्यैव पाणिः सनखो विदीर्यते
न चैव शैलस्य हि दृश्यते व्रणः ।।
अष्टावक्र उवाच।
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा ।।
यथा महेन्द्रः प्रवरः सुराणां
नदीषु गङ्गा प्रवरा यथैव।
तथा नृपाणां प्रवरस्त्वमेको
वन्दिं समभ्यानय मत्सकाशम् ।।
लोमश उवाच।
एवमष्टावक्रः समितौ हि गर्ज-
ञ्जातक्रोधो वन्दिनमाह राजन्।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि
वाक्यस्य चाप्युत्तरं ते ब्रवीमि ।।
वन्द्युवाच।
एक एवाग्निर्बहुधा समिध्यते
एकः सूर्यः सर्वमिदं विभाति।
एकोऽवीरो देवराजोऽरिहन्ता
यमः पितृणामीश्वरश्चैक एव ।।
अष्टावक्र उवाच।
द्वाविन्द्राग्नी चरतो वै सखायौ
द्वौ देवर्षी नारदपर्वतौ च।
द्वावश्विनौ द्वे रथस्यापि चक्रे
भार्यापती द्वौ विहितौ विधात्रा ।।
वन्द्युवाच।
त्रिः सूयते कर्मणा वै प्रजेयं
त्रयो युक्ता वाजपेयं वहन्ति।
अध्वर्यवस्त्रिसवनानि तन्वते
त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ।।
अष्टावक्र उवाच।
चतुष्टयं ब्राह्मणानां निकेतं
चत्वारो वर्णा यज्ञमिमं वहन्ति।
दिशश्चतस्रो वर्णचतुष्टयं च
चतुष्पदा गौरपि शश्वदुक्ता ।।
वन्द्युवाच।
पञ्चाग्नयः पञ्चपदा च पङ्क्ति-
र्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि।
दृष्ट्वा वेदे पञ्चचूडाप्सराश्च
लोके ख्यातं पञ्चनदं च पुण्यम् ।।
अष्टावक्र उवाच।
षडाधाने दक्षिणामाहुरेके
षट् चैवेमे ऋतवः कालचक्रम्।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च
षट् साद्यस्काः सर्ववेदेषु दृष्टाः ।।
वन्द्युवाच।
सप्त ग्राम्याः पशवः सप्त वन्याः
सप्त च्छन्दांसि क्रतुमेकं वहन्ति।
सप्तर्षयः सप्त चाप्यर्हणानि
सप्तन्त्री प्रथिता चैव वीणा ।।
अष्टावक्र उवाच।
अष्टौ शाणाः शतमानं वहन्ति
तथाष्टपादः शरभः सिंहघाती।
अष्टौ वसूञ्शुश्रुम देवतासु
यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे ।।
वन्द्युवाच।
नवैवोक्ताः सामिधेन्यः पितॄणां
तथा प्राहुर्नवयोगं विसर्गम्।
नवाक्षरा बृहती संप्रदिष्टा
नवैव योगो गणनामेति शश्वत् ।।
अष्टावक्र उवाच।
दिशो दशोक्ताः पुरुषस्य लोके
सहस्रमाहुर्दशपूर्णं शतानि।
दशैव मासान्बिभ्रति भर्गवत्यो
दशैरका दशदाशा दशार्हाः ।।
वन्द्युवाच।
एकादशैकादशिनः पशूना-
मेकादशैवात्र भवन्ति यूपाः।
एकादश प्राणभृतां विकारा
एकादशोक्ता दिवि देवेषु रुद्राः ।।
अष्टावक्र उवाच।
संवत्सरं द्वादशमासमाहु-
र्जगत्याः पादो द्वादशैवाक्षराणि।
द्वादशाहः प्राकृतो यज्ञ उक्तो
द्वादशादित्यान्कथयन्तीह घीराः ।।
वन्द्युवाच।
त्रयोदशी तिथिरुक्ता महोग्रा
त्रयोदशद्वीपवती मही च।
लोमश उवाच।
एतावदुक्त्वा विरराम वन्दी
श्लोकस्यार्धं व्याजहाराष्टवक्रः।
अष्टावक्र उवाच।
त्रयोदशाहानि ससार केशी
त्रयोदशादीन्यतिच्छन्दांसि चाहुः ।।
लोमश उवाच।
ततो महानुदतिष्ठन्निनाद-
स्तूष्णींभूतं सूतपुत्रं निशम्य।
अधोमुखं ध्यानपरं तदानी-
मष्टावक्रं चाप्युदीर्यन्तमेव ।।
तस्मिंस्तथा संकुले वर्तमाने
स्फीते यज्ञे जनकस्योत राज्ञः।
अष्टावक्रं पूजयन्तोऽभ्युपेयु-
र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ।।
अष्टावक्र उवाच।
अनेनैव ब्राह्मणाः शुश्रुवांसो
वादे जित्वा सलिले मज्जिताः प्राक्।
तानेव धर्मानयमद्य वन्दी
प्राप्नोतु गृह्याशु निमज्जयैनम् ।।
वन्द्युवाच।
अहं पुत्रो वरुणस्योत राज्ञ-
स्तत्रास सत्रं द्वादशवार्षिकं वै।
सत्रेण ते जनक तुल्यकालं
तदर्थं ते प्रहिता मे द्विजाग्र्याः ।।
ते तु सर्वे वरुणस्योत यज्ञं
द्रष्टुं गता इम आयान्ति भूयः।
अष्टावक्रं पूजये पूजनीयं
यस्य हेतोर्जनितारं समेष्ये ।।
अष्टावक्र उवाच।
विप्राः समुद्राम्भसि मज्जिता ये
वाचा जिता मेधया वा विदानाः।
तां मेधया वाचमथोज्जहार
यथा वाचमवचिन्वन्ति सन्तः ।।
अग्निर्दहञ्जातवेदाः सतां, गृहान्
विसर्जयंस्तेजसा न स्म धाक्षीत्।
बालेषु पुत्रेषु कृपणं वदत्सु
तथा वाचमवचिन्वन्ति सन्तः ।।
श्लेष्मातकी क्षीणवर्चाः शृणोषि
उताहो त्वां स्तुतयो मादयन्ति।
हस्तीव त्वं स्तुतयो मादयन्ति।
न मामिकां वाचमिमां शृणोषि ।।
जनक उवाच।
शृणोमि वाचं तव दिव्यरूपा-
ममानुषीं दिव्यरूपोऽसि साक्षात्।
अजैषीर्यद्वन्द्विनं त्वं विवादे
निसृष्ट एष तव कामोऽद्य वन्दी ।।
अष्टावक्र उवाच।
नानन जीवता कश्चिदर्थो मे वन्दिना नृप।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ।।
वन्द्युवाच।
अहं पुत्रो वरुणस्योत राज्ञो
न मे भयं विद्यते मज्जितस्य।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय-
मष्टावक्रश्चिरनष्टं कहोळम् ।।
लोमश उवाच।
ततस्ते पूजिता विप्रा वरुणेन महात्मना।
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः ।।
कहोळ उवाच।
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ।।
उताबलस्य क्लवानुत बालस्य पण्डितः।
उत वाऽविदुषो विद्वान्पुत्रो जनक जायते ।।
वन्द्युवाच।
शितेन ते परशुना स्वयमेवान्तको नृप।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते ।।
महदैक्थ्यं गीयते साम चाग्र्यं
सम्यक्सोमः पीयते चात्र सत्रे।
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः
साक्षाद्देवा जनकस्येह राज्ञः ।।
लोमश उवाच।
समुत्थितेष्वथ सर्वेषु राजन्
विप्रेषु तेष्वधिकं सुप्रभेषु।
अनुज्ञातो जनकेनाथ राज्ञा
विवेश तोयं सागरस्योत वन्दी ।।
अष्टावक्रः पितरं पूजयित्वा
संपूजितो ब्राह्मणैस्तैर्यथावत्।
प्रत्याजगामाश्रममेव चाग्र्यं
जित्वा वन्दिं सहितो मातुलेन ।।
ततोऽष्टावक्रं मातुरथान्तिके पिता
नदीं समङ्गां शीघ्रमिमां विशस्व।
प्रोवाच चैनं स तथा विवेश
समैरङ्गैश्चापि बभूव पुण्या
नदी समङ्गा च बभूव पुण्या
यस्यां स्नातो मुच्यते किल्बिषाद्धि।
त्वमप्येनां स्नानपानावगाहैः
सभ्रातृकः सहभार्यो विशश्व ।।
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं
सुखोषितः सह विप्रैः प्रतीतः।
पुण्यान्यन्यानि शुचिकर्मैकभक्ति-
र्मया सार्धं चरितास्याजमीढ ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि
षट्त्रिंशदधिकशततमोऽध्यायः ।। 136 ।।