आरण्यकपर्व
अध्यायः १३५
अष्टावक्र उवाच।
अन्धस्य पन्था बधिरस्य पन्थाः
स्त्रियः पन्था भारवाहस्य पन्थाः।
राज्ञः पन्था ब्राह्मणेनासमेत्य
समेत्य तु ब्राह्मणस्यैव पन्थाः ।।
राजोवाच।
पन्था अयं तेऽद्य मया निसृष्टो
येनेच्छसे तेन कामं व्रजस्व।
न पावको विद्यते वै लघीया-
निन्द्रोपि नित्यं नमते ब्राह्मणानाम् ।।
लोमश उवाच।
`स एवमुक्तो मातुलेनैव सार्धं
यथेष्टमार्गो यज्ञनिवेशनं तत्।
संप्राप्य धर्मेण निवारितः सन्
द्वारि द्वाःस्थं वाक्यमिदं बभाषे ।।'
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात
कौतूहलं बलवद्वै विवृद्धम्।
आवां प्राप्तावतिथी संप्रवेशं
काङ्क्षावहे द्वारपते तवाज्ञाम् ।।
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां
विवक्षू वै जनकेन्द्रं दिदृक्षू।
न वै क्रुध्यो वन्दिना चोत्तमेन
संयोजय द्वारपाल क्षणेन ।।
द्वारपाल उवाच।
वन्देः समादेशकरा वयं स्म
निबोध वाक्यं च मयेर्यमाणम्।
न वै बालाः प्रविशन्त्यत्र विप्रा
वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ।।
अष्टावक्र उवाच।
यद्यत्रवृद्धेषु कृतः प्रवेशो
युक्तं मया द्वारपाल प्रवेष्टुम्।
वयं हि वृद्धाश्चरितव्रताश्च
वेदप्रभावेन समन्विताश्च ।।
शुश्रूषवश्चापि जितेन्द्रियाश्च
ज्ञानागमे चापि गताः स्म निष्ठाम्।
न बाल इत्येव मन्तव्यमाहु-
र्बालोऽप्यग्निर्दहति स्पृश्यमानः ।।
द्वारपाल उवाच।
सरस्वतीमीरय वेद जुष्टा-
मेकाक्षरां बहुरूपां विराजम्।
अङ्गात्मानं समवेक्षस्व बालं
किं श्लाघसे दुर्लभा वादसिद्धिः ।।
अष्टावक्र उवाच।
न ज्ञायते कायवृद्ध्या विवृद्धि-
र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः।
ह्रस्वोऽल्पकायः फलितो विवृद्धो
यश्चाफलस्तस्य न वृद्धभावः ।।
द्वारपाल उवाच।
वृद्धेभ्य एवेह मतिं स्म बाला
गृह्णन्ति कालेन भवन्ति वृद्धाः।
न हि ज्ञातुमल्पकालेन शक्यं
कस्माद्बालः स्थविर इव प्रभाषसे ।।
अष्टावक्र उवाच।
न तेन स्थविरो भवति येनास्य पलितं शिरः।
बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ।।
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।।
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ।।
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः।
सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ।।
पश्यन्तु विप्राः परिपूर्णविद्याः
सहैव राज्ञा सपुरोधमुख्याः।
उताहो वाऽप्युच्चतां नीचतां वा
तूष्णींभूतेष्वेव सर्वेष्वथाद्य ।।
द्वारपाल उवाच।
कथं यज्ञं दशवर्षो विशेस्त्वं
विनीतानां विदुषां संप्रवेशम्।
उपायतः प्रयतिष्ये तवाहं
प्रवेशने कुरु यत्नं यथावत् ।।
`एष राजा संश्रवणे स्थितस्ते
स्तुह्येनं त्वं वचसा संस्कृतेन।
स चानुज्ञां दास्यति प्रीतियुक्तः
प्रवेशने यच्च किंचित्तवेष्टम्'।।
अष्टावक्र उवाच।
भोभो राजञ्जनकानां वरिष्ठ
त्वं वै सम्राट् त्वयि सर्वं समृद्धम्।
त्वं वा कर्ता कर्मणां यज्ञियानां
ययातिरेको नृपतिर्वा पुरस्तात् ।।
विद्वान्वन्दी वादविदो निगृह्य
वादे भग्नानप्रतिशङ्कमानः।
त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि-
र्जले सर्वान्मज्जयतीति नः श्रुतम् ।।
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे
ब्रह्माद्य वै कथयितुमागतोस्मि।
क्वासौ वनदी यावदेनं समेत्य
नक्षत्राणीव सविता नाशयामि ।।
राजोवाच।
आशंससे वन्दिनं वै विजेतु-
मविज्ञाय त्वं वाक्यबलं परस्य।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं
दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ।।
आशंसमाना वन्दिनं वै बिजेतु-
मविज्ञात्वा तु बलं वन्दिनोऽस्य।
समागता ब्राह्मणास्तेन पूर्वं
न शोभन्ते भास्करेणेव ताराः ।।
आशानुबन्धो हि तवात्र यत्नः
स वन्दिमासाद्यतथा विनश्यति।
विज्ञानवन्तो निकृतास्तु तात
कथं सदस्तर्तुमिदं समर्थः ।।
अष्टावक्र उवाच।
विवादितोऽसौ न हि मादृशैर्हि
सिंहीकृतस्तेन वदन्यभीतः।
समेत्य मां निहतः शेष्यतेऽद्य
मार्गे भग्नं शकटमिवाबलाक्षम् ।।
राजोवाच।
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ।।
अष्टावक्र उवाच।
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि।
तत्रिषष्टिशतारं वै चक्रं पातु सदागति ।।
राजोवाच।
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ।।
अष्टावक्र उवाच।
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्।
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ।।
राजोवाच।
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति।
कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ।।
अष्टावक्र उवाच।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ।।
राजोवाच।
न त्वां मन्ये मानुषं देवसत्व
न त्वं बालः स्थविरः संमतो मे।
न ते तुल्यो विद्यते वाक्प्रलापे
तस्माद्द्वारं वितराम्येष विद्वन् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ।। 135 ।।