आरण्यकपर्व

अध्यायः १२९

Aranyaka Parva (Sanskrit) · Adhyaya 129
अक्षर का आकार

सोमक उवाच।

ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा।
पुत्रकामतया सर्वंकरिष्यामि वचस्तव ।।

लोमश उवाच।

ततः स याजयामास सोमकं तेन जन्तुना।
मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः ।।

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः।
तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे ।।

सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति।
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ।।

विशस्य चैनं विधिवद्वपामस्य जुहाव सः।
वपायां हूयमानायां गन्धमाघ्राय मातरः ।।

आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन।
सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः ।।

ततो दशसु मासेषु सोमकस्य विशांपते।
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ।।

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत्।
स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः ।।

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे।
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि ।।

ततः स लोकमगमत्सोमकस्य गुरुः परम्।
अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम् ।।

अथ तं नरके घोरे पच्यमानं ददर्श सः।
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ।।

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्।
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ।।

एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्।
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ।।

मत्कृते हि महाभागः पच्यते नरकाग्निना।
`सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः' ।।

धर्म उवाच।

नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन।
इमानि तव दृश्यन्ते फलानि वदतांवर ।।

सोमक उवाच।

पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्।
इच्छाम्यहमननैव सह वस्तुं सुरालये ।।

नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम्।
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ।।

धर्मराज उवाच।

यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम्।
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ।।

लोमश उवाच।

स चकार तथा सर्वं राजा राजीवलोचनः।
क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह ।।

लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम्।
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ।।

एष तस्याश्रमः पुण्यो य एषोग्रे विराजते।
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ।।

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः।
षड्रात्रं नियतात्मानः स़ज्जीभव कुरूद्वह ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ।। 129 ।।