आरण्यकपर्व
अध्यायः १२८
युधिष्ठिर उवाच।
कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ।।
लोमश उवाच।
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः।
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ।।
स वै यत्नेन महता तासु पुत्रं महीपतिः।
कंचिन्नासादयामास कालेन महता ह्यपि ।।
कदाचित्तस् वृद्धस्य यतमानस्य धीमतः।
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ।।
तं जातं मातरः सर्वाः परिवार्य समासते।
सततं पृष्ठतः कृत्वा कामभोगान्विशांपते ।।
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि।
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ।।
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः।
प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ।।
तमार्तनादं सहसा शुश्राव स महीपतिः।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ।।
ततः प्रस्थापयामास किमेतदिति पार्थिवः।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ।।
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ।।
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ।।
सोमक उवाच।
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ।।
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो।
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ।।
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम।
यतमानासु सर्वासु किंनु दुःखमतः परम् ।।
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ।।
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्।
महता लघुना वाऽपि कर्मणा दुष्करेण वा ।।
ऋत्विगुवाच।
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ।।
सोमक उवाच।
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत्।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ।।
ऋत्विगुवाच।
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ।।
वपार्या हूयमानायां धूममाघ्राय मातरः।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ।।
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः।
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ।। 128 ।।