अनुशासनपर्व
अध्यायः २३८
उमोवाच।
पितृमेधः कथं देव तन्मे शंसितुमर्हसि।
सर्वेषां पितरः पूज्याः सर्वसम्पत्प्रदायिनः।।
महेश्व उवाच।
पितृमेधं प्रवक्ष्यामि यथावत्तन्मना शृणु।
देशकालौ विधानं च तत्क्रियायाः शुभाशुभम्।।
लोकेषु पितरः पूज्या देवतानां च देवताः।
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः।।
यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः।
पितरश्च तथा लोके पितृमेधं शुभेक्षणे।।
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती।
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम्।।
तीर्थानि सरितः पुण्या विविक्तानि वनानि च।
नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः।।
माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ।
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते।।
अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च।
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः।।
पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा।
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः।।
एष कालो मया प्रोक्तः पितृमेधस्य पूजितः।
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालः स च स्मृतः।।
अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः।
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत्।।
वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान्।
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे।।
एतान्निमन्त्रयोद्विद्वान्पूर्वेद्युः प्रातरेव वा।
तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि।।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा।।
कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु।
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु।।
तिलानवकिरेत्तत्र नानावर्णान्समन्ततः।
अशुद्धं पितृयज्ञश्च तिलैः शुध्यति शोभने।।
नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम्।
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः।।
कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम्।
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत्।।
मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह।
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते।।
संवत्सरं च गव्येन हविषा पायसेन च।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी।।
आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये।
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम्।।
महाशकलिनो मस्याश्छागो वा सर्वलोहितः।
कालशाकमितीत्येव तदानन्त्याय कल्पितम्।।
सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत्।
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः।।
श्मश्रुकर्मशिरः स्नातान्समारोप्यासनं क्रमात्।
सुगन्धमाल्याभरणैः स्नग्भिरेतान्विभूषयेत्।।
अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत्।।
ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम्।
तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः।
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा।।
तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः।
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम्।।
एतेन विधिना दत्तं पितॄणामक्षयं भवेत्।
ततो विप्रान्यथाशक्ति पूजयेन्नियतः शुचिः।
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः।।
यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः।
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत्।।
ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम्।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत्।।
पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत्।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्।।
तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत्।
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः।।
एष प्रोक्तः समासेन पितृयज्ञः सनातनः।
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात्।।
अहन्यहनि वा कुर्यान्मासेमासेऽथवा पुनः।
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः।।
दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः।
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान्।।
श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधात्मकम्।
अप्सरोगणसंघुष्टं विरजस्कमनन्तरम्।।
श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः।
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरः सदा।।
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम्।
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः।।
उमोवाच।
भगवन्देवदेवेश मृतास्ते भुवि जन्तवः।
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः।।
पितरः स्वस्ति ते तत्र कथं तिष्ठन्ति देववत्।
पितॄणां कतमो देशः पिण्डानश्नन्ति वै कथम्।।
अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत्।
एवं मया संशयितं भगवन्वक्तुमर्हसि।।
नारद उवाच।
एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम्।
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम्।।
महेश्वर उवाच।
स्थाने संशयितं देवि शृणु कल्याणि तत्वतः।
गुह्यानां परमं गुह्यं हितानां परमं हितम्।।
यथा देवगणा देवि तथा पितृगणाः प्रिये।
दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः।।
प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह।
तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः।।
उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः।
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः।।
द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम्।
तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन्।
प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते।
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते।।
सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च।
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान्।।
अनिष्टा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत्।
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत्।।
हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः।
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते।।
कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः।
इति ते कथितं देवि देवगुह्यं सनातनम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः।। 238 ।।