अनुशासनपर्व
अध्यायः २
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
श्रुतं मे महदाख्यानमिदं मतिमतांवर।।
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप।
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि।।
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः।
इत्येतद्धर्ममाचक्ष्व तत्त्वेनापि च पार्थिव।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यथा मृत्यर्गृहस्थेन धर्ममाश्रित्य निर्जितः।।
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः।
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः।।
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत।
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः।।
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः।
सत्ये तपसि दाने च यस्य नित्यं रतं मनः।।
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः।
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा।।
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः।
महाभागो महातेजा महासत्वो महाबलः।।
पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः।
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः।
धर्मात्मा कोशवांश्चापि देवराज इवापरः।।
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः।
दुर्जयो नाम विख्यातः सर्वशस्त्रभृतांवर।।
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः।
दुर्योधनो नाम महान्राजा राजर्षिसत्तमः।।
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः।
विषये वासवस्तस्य सम्यगेव प्रवर्षति।।
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः।
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत्।।
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः।
व्याधितो वा कृशो वाऽपरि तस्मिन्नाभून्नरः क्वचित्।।
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः।
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः।।
यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः।
न चावमन्ता दाता च वेदवेदाङ्गपारगः।।
तं नर्मदा देवनदी पुण्या शीतजला शिवा।
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत।।
तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना।
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना।।
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर।
दुर्योधनसुता यादृगभवद्वरवर्णिनी।।
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युति।।
सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया।
नियुक्ता पितृसन्देशादारिराधयिषुः शिखिम्।।
तस्या मनोहरं रूपं दृष्ट्वा देवो हुताशनः।
मन्मथेन समादिष्टः पत्नीत्वे यतते मिथः।।
भज मामनवद्याङ्गि कामात्कमललोचने।
रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने।।
0
भ्रूलताललितं कान्तमनङ्गो बाधते हि माम्।।
ललाटं चन्द्ररेखाभं शिरोरुहविभूषितम्।
दृष्ट्वा ते पत्रलेखान्तमनङ्गो बाधते भृशम्।।
बालातपेन तुलितं सस्वेदपुलकोद्गमम्।
बिम्बाधरोष्ठवदनं विबुद्धमिव पङ्कजम्।
अतीव चारुविभ्रान्तं मदमावहते मम।।
दन्तप्रकाशनियता वाणी तव सुरक्षिता।
ताम्रपल्लवसंकाशा जिह्वेयं मे मनोहरा।।
समाः स्निग्धाः सुजाताश्च सहिताश्च द्विजास्तव।
द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि।।
मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम्।
स्तनौ ते संहतौ भीरु हाराभरणभूषितौ।।
पक्वबिल्वप्रतीकाशौ कर्कशौ सङ्गमक्षमौ।
गम्भीरनाभिसुभगे भज मां वरवर्णिनि।।
भीष्म उवाच।
सैवमुक्ता विरहिते पावकेन महात्मना।
ईषदाकम्पहृदया व्रीडिता वाक्यमब्रवीत्।।
नलु नाम कुलीनानां कन्यकानां विशेषतः।
माता पिता प्रभवतः प्रदाने बान्धवाश्च ये।।
पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ।
सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः
साऽहं नात्मवशा देव पितरं वरयस्व मे।
अथ नातिचिराद्राजा कालाद्दुर्योधनस्तदा।
यज्ञसम्भारनिपुणान्मन्त्रीनाहूय चोक्तवान्।
यज्ञं यक्ष्येऽहमिति वै सम्भारान्सम्भ्रियन्तु मे।।
ततः समाहिते तस्य यज्ञे ब्राह्मणसत्तमैः।
विप्ररूपी हुतवहो नृपं कन्यामयाचत।।
न तु राजा प्रदानाय तस्मै भावमकल्पयत्।
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः।
इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः।।
अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः।
आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत।।
ततः स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः।
मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत्।
यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः।।
सम्मन्त्रकुशलैस्तैस्तैर्ब्राह्मणैर्वेदपारगैः।
ऋत्विग्भिर्मन्त्रकुशलैर्यज्यतां वा हुताशनः।।
अथ ऋक्सामयजुषां ब्राह्मणैर्वेदपारगैः।
वेदतत्वार्थकुशलैस्ततः सोमपुरस्करैः।।
गुह्यैश्च नामभिः सर्वैराहूतो हव्यवाहनः।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः।।
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्।
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति।।
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्।
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना।।
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्।
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्।।
अयाचत च तं शुल्कं भगवन्तं विभावसुम्।
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति।।
तमाह भगवानग्निरेवमस्त्विति पार्थिवम्।
ततः सान्निध्यमद्यापि माहिष्मत्यां विभावसोः।।
दृष्टं हि सहदेवेन दिशं विजयता च तत्।
ततस्तां समलङ्कृत्य कन्यामहतवाससम्।
ददौ दुर्योधनो राजा पावकाय महात्मने।।
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम्।
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे।।
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया।
अभवत्प्रीतिमानग्निर्गर्भं चास्यां समादधे।।
तस्याः समभवत्पुत्रो नाम्नाऽग्नेयः सुदर्शनः।।
सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः।
शिशुरेवाध्यगात्सर्वं परं ब्रह्म सनातनम्।।
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः।
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत्।।
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम्।
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम्।।
स गृहस्थाश्रमरतस्तया सह सुदर्शनः।
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः।।
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो।
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशाम्पते।।
तामेवौघवतीं राजन्स पावकसुतोऽब्रवीत्।
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन।।
येनयेन च तुष्येत नित्यमेव त्वयाऽतिथिः।
अप्यात्मनः प्रदानेन न ते कार्या विचारणा।।
एतद्व्रतं मम सदा हृदि सम्परिवर्तते।
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्।।
प्रमाणं यदि वामोरु वचस्ते मम शोभने।
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा।।
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव।।
तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः।
न मे त्वद्वचनात्किञ्चिन्न कर्तव्यं कथञ्चन।।
जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम्।
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा।।
इध्मार्थं तु गते तस्मिन्नग्रिपुत्रे सुदर्शने।
अतिधिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा।।
आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि।
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः।।
इत्युक्ता तेन विप्रेणि राजपुत्री यशस्विनी।
विधिना प्रतिजग्राह वेदोक्तेन विशांपते।।
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये।
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते।।
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्।
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर।।
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः।
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्।।
स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया।
नान्यमात्मप्रदानात्स तस्या वव्रे परं द्विजः।।
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम्।।
ततो विहस्य विप्रर्षिः सा चैवोपविवेश ह।
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः।।
अथेध्मान्समुपादाय स पावकिरुपागमत्।
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः।।
ततस्त्वाश्रममागम्य स पावकसुतस्तदा।
तां व्याजहारौघवतीं क्वासि यातेति चासकृत्।।
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा।
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती।।
उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च।
तूष्णींभूताऽभवत्साध्वी विप्रकोपाच्च शङ्किता।।
अथ तां किन्विति पुनः प्रोवाच स सुदर्शनः।
क्व सा साध्वी क्व सायाता गरीय किमतो मम।।
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता।
कथं न प्रत्युदेत्यद्य स्मयमाना यथापुरम्।।
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्।
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम्।।
अनया छन्द्यमानोऽहं भार्यया तव सत्तम।
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया।।
आत्मप्रदानविधिना मामर्चति शुभानना।
अनूरूपं यदत्रान्यत्तद्भवान्कर्तुमर्हति।।
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात्।
हीनप्रतिज्ञमत्रैवं वधिष्यामीति चिन्तयन्।।
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा।
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्।।
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम।
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम्।।
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति।
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः।।
प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु।
अतिथिभ्यो मया देयमिति मे व्रतमाहितम्।।
निःसन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम्।
तेनाहं विप्र सत्येन स्वयमात्मानमालभे।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश।।
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः।
सुकृतं दुष्कृतं चापि कर्म कर्मवतांवर।।
यथैषा नानृता वाणी मयाऽद्य समुदीरिता।
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा।।
ततो नादः समभवद्दिक्षु सर्वासु भारत।
असकृत्सत्यमित्येवं नैतन्मिथ्येति सर्वतः।।
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः।
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः।।
स्वरेण विप्रः शैक्षेण त्रींल्लोकाननुनादयन्।
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः।।
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ।
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि।।
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति।
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः।।
न चास्ति शक्तिस्त्रैलोक्ये कस्य चित्पुरुषोत्तम।
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत।।
रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा।
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत्।।
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी।
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति।।
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति।
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः।
अनया सह लोकांश्च गन्ताऽसि तपसार्जितान्।।
यत्र नावृत्तिमभ्येति शाश्वतांस्ताननुत्तमान्।
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे।।
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम्।
पञ्चभूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः।
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ।।
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः।
तव शुश्रूषया राजन्राजपुत्र्या च निर्जिताः।।
भीष्म उवाच।
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम्।
युक्तं प्रगृह्य भगवान्वासवोप्याजगाम तम्।।
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च।
बुद्धिः कालो मदो मोहः कामक्रोधौ तथैव च
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै।
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय।।
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम्।
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीपिण।।
सुदत्तं सुकृतं वाऽपि कम्पयेदप्यनर्चितः।।
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्।
स दत्त्वा तुष्कृतं तस्मै पुण्यमादाय गच्छति।।
एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम्।
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत्।।
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्।
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम्।।
इदं यः कथयेद्विद्वानहन्यहनि भारत।
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वितीयोऽध्यायः।। 2 ।।