अनुशासनपर्व

अध्यायः १

Anusasana Parva (Sanskrit) · Adhyaya 1
अक्षर का आकार

।। श्रीवेदव्यासाय नमः।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव(व्यासं)ततो जयमुदीरयेत्।।

वैशंपायन उवाच।

`शरतल्पे महात्मानं शयानमपराजितम्।
युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत्।।'

शमो बहुविधाकारः सूक्ष्म उक्तः पितामह।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम्।।

अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह।
स्वकृतात्का नु शान्ति स्याच्छमाद्बहुविधादपि।।

शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन्।।

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्।।

अतः कष्टतरं किन्नु मत्कृते यत्पितामहः।
इमामवस्थां `गमितः प्रत्यमित्रै रणाजिरे।।

तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः।।

वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप।।

इदं तु धार्तराष्ट्रास्य श्रेयो मन्ये जनाधिप।
इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति।।

सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ।।

दुर्योधनो हि समरे सहसैन्यः सहानुजः।
निहतः क्षत्रधर्मेऽस्मिन्दुसत्मा कुलपांसनः।।

न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः।।

अहं हि समरे वीर गमितः शत्रुभिः क्षयम्।
अभविष्यं यदि पुरा सह भ्रातृभिरच्युत।
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्।।

नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप।।

अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्।
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम्।।

भीष्म उवाच।

परतन्त्रं कथं हेतुमात्मानमनु पश्यसि।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम्।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः।।

गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्।।

अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः।
लुब्धकोऽर्जुनको नाम नाम गौतम्याः समुपानयत्।।

तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः।
ब्रहि क्षिप्रं महाभागे वध्यतां केन हेतुना।।

अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा।
न ह्यं बालहा पापश्चिरं जीवितुमर्हति।।

गौतम्युवाच।

विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया।
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके।।

नास्यामृतत्वं भवितैवं हतेऽस्मि-
ञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो-
र्मृत्युं लोके को न गच्छेदनन्ते।।

लुब्धक उवाच।

जानाम्यहं नेह गुणागुणज्ञाः
सदायुक्ता गुरवो वै भवन्ति।
स्वर्गस्य ते सूपदेशा भवन्ति
तस्मात्क्षुद्रं सर्पमेनं हनिष्ये।।

शममीप्सन्तः कालयोगं त्यजन्ति
सद्यः शुचं त्वर्थविदस्त्यजन्ति।
श्रियः क्षयः शोचतां नित्यशो हि
तस्माच्छुचं मुञ्च हते भुजङ्गे।।

गौतम्युवाच।

न चैवार्तिर्विद्यतेऽस्मद्विधानां
धर्मात्मानः सर्वदा सञ्जना हि।
नित्यायस्तो बालजनो न चाहं
धर्मोपैति प्रभवाम्यस्य नाहम्।।

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः।।

लुब्धक उवाच।

हत्वा लाभः श्रेय एवाव्ययः स्या-
त्सद्योलाभःस्याद्बलिभ्यः प्रशस्तः।
कालाल्लाभो यस्तु सद्यो भवेत
श्रेयोलाभः कुत्सिते त्वीदृशि स्यात्।।

गौतम्युवाच।

काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य
का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे
मोक्षार्थं वा कस्य हेतोर्न कुर्याम्।।

लुब्धक उवाच।

अस्मादेकाद्बहवो रक्षितव्या
नैको बहुभ्यो गौतमि रक्षितव्यः।
कृतागसं धर्महेतोस्त्यजन्ति
सरीसृपं पापमिमं त्यज त्वम्।।

गौतम्युवाय

नास्मिन्हते पन्नगे पुत्रको मे
सम्प्राप्स्यते लुब्धक जीवितं वै।
गुणं चान्यं नास्य वधे प्रपश्ये
तस्मात्सर्पं लुब्धक मुञ्च जीवम्।।

लुब्धक उवाच।

वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै
यज्ञं हत्वा भागमवाप चैव।
शूली देवो देववृत्तं चर त्वं
क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का।।

भीष्म उवाच।

असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति।
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम्।।

ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः।।

सर्प उवाच।

को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्।।

तस्यायं वचनाद्दष्टो न कोपेन न काम्यया।
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन।

लुब्धक उवाच।

यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी।।

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग।।

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम।।

सर्प उवाच।

सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव।।

अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात्।।

एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम्।।

लुब्धक उवाच।

कारणं यदि स्याद्वै न कर्ता स्यास्त्वमप्युत।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः।।

असत्यपि कृते कार्ये नेह पन्नग लिप्यते।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे।।

सर्प उवाच।

कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः।।

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः।
अन्यः प्रयोक्तास्यादत्र किन्नु जन्तुविनाशने।।

लुब्धक उवाच।

वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम।।

सर्प उवाच।

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम्।।

भीष्म उवाच।

तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्।।

प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः।।

यथा वायुर्जलधरान्विकर्षति ततस्ततः।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः।।

सात्विका राजसाश्चैव तामसा ये च केचन।
भावाः कालात्मकाः सर्वे प्रवर्तन्तेह जन्तुषु।।

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्।।

प्रवृत्तयश्च लोके या तथैव च निवृत्तयः।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्।।

आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः।।

सरितः सागराश्चैव भावाभावौ च पन्नग।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः।।

एवं ज्ञात्वा कथं मां सदोषं सर्प मन्यसे।
अथ चैवं गते दोषे मयि त्वमपि दोषवान्।।

सर्प उवाच।

निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु।।

यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्।।

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम्।।

भीष्म उवाच।

सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्।
नानागसं मां पाशेन सन्तापयितुमर्हसि।

लुब्धक उवाच।

मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम।
नैव तावददोषत्वं भवति त्वयि पन्नग।।

मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने।
उभयं कारणं मन्ये न कारणमकारणम्।।

धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्।
त्वां चैवाहं वधिष्यामि परपापस्य कारणम्।।

मृत्युरुवाच।

विवशौ कालवशगावावां निर्दिष्टकारिणौ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि।।

लुब्धक उवाच।

युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम्।।

मृत्युरुवाच।

या काचिदेव चेष्टा स्यान्सर्वा कालप्रचोदिता।
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः।।

तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ।
नावां दोपेण गन्तव्यौ त्वया लुब्धक कर्हिचित्।।

भीष्म उवाच।

अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा।।

न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः।।

अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा।।

यदनेन कृतं कर्म तेनायं निधनं गतः।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्।।

कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः।
कर्माणि चोदयन्तीह यथान्योन्यं तथावयम्।।

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते।।

यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम्।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः।।

एवं नाहं न वै मृत्युर्न सर्पो न तथा भव न्।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्।।

तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत्।।

नैव कालो न भुजगो न मृत्युरिह कारणम्।
स्वकर्मभिरयं बालः कालेन निधं गतः।।

मया च तत्कृतं कर्म येनायं मे मृतः सुतः।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्।।

भीष्म उवाच।

ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी।।

एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि समितिंजय।।

नैव त्वया कृतं कर्म नापि दुर्योधनेन वै।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः।।

वैशम्पायन उवाच।

इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः।
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि प्रथमोऽध्यायः।। 1 ।।