अनुशासनपर्व
अध्यायः १४२
भीष्म उवाच।
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः।
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च।।
अथापश्यन्सुपीनांसपाणिपादमुखोदरम्।
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम्।।
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम्।
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्।।
वसिष्ठ उवाच।
नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम्।
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनस्सखः।।
अत्रिरुवाच।
नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम्।
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः।।
विश्वामित्र उवाच।
नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः।
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः।।
जमदग्निरुवाच।
नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च।
सञ्चित्यं वार्षिकं चित्ते तेन पीवाञ्शुनस्सखः।।
कश्यप उवाच।
नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः।
देहिदेहीति भिक्षन्ति तेन पीवाञ्शुनस्सखः।।
भरद्वाज उवाच।
नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः।
शोको भार्यापवादेन तेन पीवाञ्शुनस्सखः।।
गौतम उवाच।
नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम्।
एकैकं वै त्रिवर्षीयं तेन पीवाञ्शुनस्सखः।।
भीष्म उवाच।
अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः।
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत्।।
परिचर्यां वने तां तु क्षुत्प्रतीकारकाङ्क्षिणः।
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते।।
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते।
आददानाः समुद्धृत्य मूलानि च फलानि च।।
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्।
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम्।।
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्।
वैडूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्।।
नानाविधैश्च विहगैर्जलप्रवरसेविभिः।
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्।।
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना।
यातुधानीति विख्याता पद्मिनीं तामरक्षत।।
शुनस्सखसहायास्तु बिसार्थं ते महर्षयः।
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम्।।
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्।
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः।।
एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम्।
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि।।
यातुधान्युवाच।
याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन।
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः।।
ऋषय ऊचुः।
सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः।
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत।।
यातुधान्युवाच।
समयेन बिसानीतो गृह्णीध्वं कामकारतः।
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्।।
भीष्म उवाच।
विज्ञाय यातुधानीं तां कृत्यमृषिवधैषिणीम्।
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत्।।
अत्त्रिरुवाच।
अरात्त्रिरत्त्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने।।
यातुधान्युवाच।
यथोदाहृतमेतत्ते त्वया नाम महाद्युते।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम्।।
वसिष्ठ उवाच।
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि।
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्दि माम्।।
यातुधान्युवाच।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
कश्यप उवाच।
कुलंकुलं च कुवमः कुवमः कश्यपो द्विजः।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय।।
यातुधान्युवाच।
यथोदाहृतमेतत्ते मयि नाम महाद्युते।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम्।।
भरद्वाज उवाच।
भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान्।
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने।।
यातुधान्युवाच।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
गौतम उवाच।
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्।
विद्धि मां गोतमं कृत्ये यातुधानि निबोध मां
यातुधान्युवाच।
यथोदाहृतमेतत्ते मयि नाम महामुने।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
विश्वामित्र उवाच।
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा।
विश्वामित्र इति ख्यातं यातुधानि निबोध मां
यातुधान्युवाच।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
जमदग्निरुवाच।
जाजमद्यजजानेऽहं जिजाहीह जिजायिषि।
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने।।
यातुधान्युवाच।
यथोदाहृतमेतत्ते मयि नाम महामुने।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
अरुन्धत्युवाच।
धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्।
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्।।
यातुधान्युवाच।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
गण्डोवाच।
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते।
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे।।
यातुधान्युवाच।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्।।
पशुसख उवाच।
पशून्यञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा।
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे।।
यातुधान्युवाच।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्।।
शुनःसख उवाच।
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे।
शुनःसखसखायं मां यातुधान्युपधारय।।
यातुधान्युवाच।
नाम न व्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा।
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज।।
शुनःसख उवाच।
सकृदुक्तं मया नाम न गृहीतं त्वया यदि।
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम्।।
भीष्म उवाच।
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा।
कृत्या पपात मेदिन्यां भस्म साच जगाम ह।।
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्।
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्।।
ततस्ते मुनयः सर्वेः पुष्कराणि बिसानि च।
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः।।
श्रमेण महता युक्तास्ते बिसानि कलापशः।
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा।।
अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन्।
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः।।
ऋषय ऊचुः।
केन क्षुधाभिभूतानामस्माकं पापकर्मणाम्।
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम्।।
भीष्म उवाच।
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः।
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन।।
त उक्त्वा बाढमित्येव सर्व एव तदा समम्।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः।।
अत्रिरुवाच।
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु।
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः।।
वसिष्ठ उवाच।
अनध्याये पठेल्लोके शुनः स परिकर्षतु।
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः।।
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु।
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः।।
कश्यप उवाच।
विष्णुं ब्रह्मण्यदेवेशं देवदेवं जगद्गुरुम्।
आधातारं विधातारं सन्धातारं जगद्गुरुम्।
विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः।।
सर्वत्र सर्वं लपतु न्यासलोपं करोतु च।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः।।
वृथा मांसाशनश्चास्तु वृथा दानं करोतु च।
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः।।
भरद्वाज उवाच।
नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च।
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः।।
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च।
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः।।
जमदग्निरुवाच।
पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यत्।
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः।।
द्वेष्यो भार्योपजीवी स्याद्दुरबन्धुश्च वैरवान्।
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः।।
गौतम उवाच।
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु।
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः।।
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः।।
विश्वामित्र उवाच।
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः।
दरिद्रो बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः।।
अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः।
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः।।
हर्षं करोतु भृतको राज्ञश्वास्तु पुरोहितः।
अयाज्यस्य भवेदृत्विक् बिसस्तैन्यं करोति यः
अरुन्धत्युवाच।
नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः।
एका स्वादु समश्नातु बिसस्तैन्यं करोति या।।
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये।
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या।।
गण्डोवाच।
अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या।।
साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह।
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या।।
पशुसख उवाच।
दास एव प्रजायेतामप्रसूतिरकिञ्चन।
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः।।
शुनःसख उवाच।
अध्वर्यवे दुहितरं वा ददातु
च्छन्दोगे वाऽऽचरितब्रह्मचर्ये।
आथर्वणं वेदमधीत्य विप्रः
स्नायीत वा यो हरते बिसानि।।
ऋषय ऊचुः।
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख।।
शुनःसख उवाच।
न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः।
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया।।
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत।
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः।।
रक्षणार्थं च सर्वेषां भवतामहमागतः।
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी।।
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः।
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा।।
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत।
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः।
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः।।
भीष्म उवाच।
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम्।
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्।।
एवमेते महात्मानो योगैर्बहुविधैरपि।
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः।
नैव लोभं तदा यक्रुस्ततः स्वर्गमवाप्नुवन्।।
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्।
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत्।।
इदं नरः सुचरितं समवायेषु कीर्तयन्।
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते।।
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा।
यशोधर्मार्थभागी च भवति प्रेत्य मानवः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः।। 142 ।।