अनुशासनपर्व
अध्यायः १४१
युधिष्ठिर उवाच।
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च।
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह।।
भीष्म उवाच।
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत।।
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती।।
सर्वेषामथ तेषां तु गण्डाभूत्परिचारिका।
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह।।
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्।
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम्।।
अथाभवदनावृष्टिर्महती कुरुनन्दन।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः।।
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना।
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रोऽनिलः किल
अस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभुः।
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे।।
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः।
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः।।
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह।।
वृषादर्भिरुवाच।
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्।
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः।।
`प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता।
तस्माद्ददामि वो वित्तं तद्वृणुध्वं तपोधनाः।।
प्रियो हि मे ब्राह्मणो याचमानो
दद्यामहं वोऽश्वतरीसहस्रम्।
धेनूनां दद्यामयुतं समग्र-
मेकैकशः सवृषाः सम्प्रसूताः।।
दग्र्या गृष्टीर्धेनवः सुव्रताश्च।।
वरान्ग्रमान्व्रीहिरसं यवांश्च
रत्नं चान्यद्दुर्लभं किं ददानि।
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं
पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै।।
ऋषय ऊचुः।
राजन्प्रतिग्रहो राज्ञं मध्वास्वादो विषोपमः।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम्।।
`दशसूनासमश्चक्री दशचक्रिसमो ध्वजी।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः।।
दशसूनासहस्राणि यो वाहयति सौनिकः।
तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः।।'
क्षेत्रं हि दैवतमिव ब्राह्मणान्समुपाश्रितम्।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः।।
अह्नायेह तपो जातु ब्राह्मणस्योपजायते।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः।।
कुशलं सह दानेन राजन्नस्तु सदा तव।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा तेन्यतो ययुः।।
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम्।
अथ हित्वा ययु सर्वे वनमाहारकाङ्क्षिणः।।
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः।
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे।।
दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन्।।'
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन्।।
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत्।
नास्मेह मन्दविज्ञाना नास्म मानुषबुद्धयः।।
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम।
इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम्।
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना।।
वसिष्ठ उवाच।
शतेन निष्कगुणितं सहस्रेण च सम्मितम्।
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम्।।
कश्यप उवाच।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत्।।
भरद्वाज उवाच।
उत्पन्नस्य रुरोः शृङ्गं वर्दमानस्य वर्धते।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते।।
गौतम उवाच।
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत्।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते।।
विश्वामित्र उवाच।
कामं कामयमानस्य यदा कामः समृध्यते।
अथैनमपरः काम इष्टो विध्यति बाणवत्।।
`अत्रिरुवाच।
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।।'
जमदग्निरुवाच।
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्।।
अरुन्धत्युवाच।
धर्मार्थं सञ्चयो यो वा द्रव्याणां पक्षसम्मतः।
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात्।।
चण्डोवाच।
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः।
बलीयसो दुर्बलवद्बिभेम्यहमतः परम्।।
पशुसस्व उवाच।
यद्वै धर्मात्परं नास्ति तादृशं ब्राह्मणा विदुः।
विनयात्साधु विद्वांसमुपासेयं यथातथम्।।
ऋषय ऊचुः।
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः।
फलान्युपधियुक्तानि य एवं नः प्रयच्छति।।
भीष्म उवाच।
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः।।
अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन्।
उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै।
ततोऽन्यत्रैव गच्छन्ति विदितं तेऽस्तु पार्थिव।।
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह।
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम्।।
स गत्वाऽऽहवनीयेऽग्नौ तीव्रं नियममास्थितः।
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः।।
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्।।
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता।
वृषादर्भि नरपतिं किं करोमीति चाब्रवीत्।।
वृषादर्भिरुवाच।
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय।।
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय।
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव।।
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि<>BR दानधर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः।। 141 ।।