आदिपर्व

अध्यायः ९८

Adi Parva (Sanskrit) · Adhyaya 98
अक्षर का आकार

एवमुक्ता वरारोहा व्रीडितेव मनस्विनी।
विसंज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला।।

संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत।।

आकारं गूहमाना च मन्युना च समीरितम्।
तपसा संभृतं तेजो धारयामास वै तदा।।

सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता।
भर्तारमभिसंप्रेक्ष्य यथान्यायं वचोऽब्रवीत्।।

जानन्नपि महाराज कस्मादेवं प्रभाषसे।
न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा।।

तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च।
साक्षिणं बत कल्याणमात्मानमवमन्यसे।।

योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा।।

एकोऽहमस्मीति च मन्यसे त्वं
न हृच्छयं वेत्सि मुनिं पुराणम्।
यो वेदिता कर्मणः पापकस्य
तस्यान्तिके त्वं वृजिनं करोषि।।

`धर्म एव हि साधूनां सर्वेषां हितकारणम्।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्'।।

मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः।।

आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम्।।

यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति।।

न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः।
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम्।।

योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम्।।

स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम्।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम्।।

किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि।
नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे।।

यदि मे याचमानाया वचनं न करिष्यसि।
दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति।।

जायां पतिः संप्रविश्य यदस्यां जायते पुनः।
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः।।

यदागमवतः पुंसस्तदपत्यं प्रजायते।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान्।।

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः।
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयंभुवा।।

`पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते।
अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः।।'

सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता।।

अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा।
भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान्।।

भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः।।

सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः।।

कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै।
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः।

संसरन्तमभिप्रेतं विषमेष्वेकपातिनम्।
भार्यैवान्वेति भर्तारं सततं या पतिव्रता।।

प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते।
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति।।

एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते।
यदाप्नोति पतिर्भार्यामिह लोके परत्र च।।

`पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै।'
आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः।।

तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम्।
`अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा।।

गती रूपं च चेष्टा च आवर्ता लक्षणानि च।
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च।।

तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात्।'
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्।।

जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्।
`पतिव्रतारूपधराः परबीजस्य संग्रहात्।।

कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम्।
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः।।

मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः।
द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः।।

द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप।
न द्वेष्टि पितरं पुत्रो जनितारमथापि वा।।

न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत्।'
दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः।।

ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव।
`विप्रवासकृशा दीना नरा मलिनवाससः।।

तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत्।'
अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः।।

रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च।
`आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः।।

शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन्।'
आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः।।

ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा-।
`देवानामपि का शक्तिः कर्तुं संभवमात्मनः।।

पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता।
ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे'।।

परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः।
पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः।।

स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम्।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे।।

अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः।
किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम्।।

न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम्।
`ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः।।

किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम्।
मलयाच्चन्दनं जातमतिशीतं वदन्ति वै।।

शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत्।'
न वाससां न रामाणां नापां स्पर्शस्तथाविधः।।

शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः।
पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते।।

स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः।
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्।।

मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः।।
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः।।

`अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते।
कुमारो राजशार्दूल तव शोकप्रणाशनः।।'

आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः।
`राजसूयादिकानन्यान्क्रतूनमितदक्षिणान्।।

इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा।
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः।।

मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः।
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः।।

जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम्।
अङ्गादङ्गात्संभवसि हृदयादधिजायसे।।

आत्मा वै पुत्रनामासि स जीव शरदः शतम्।
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि।।

पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम्।
तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम्।।

एको भूत्वा द्विधा भूत इति वादः प्रवर्तते।
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः।।

सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम्।
`सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि'।।

यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते।
एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः।।

मृगापकृष्टेन हि वै मृगयां परिधावता।
अहमासादिता राजन्कुमारी पितुराश्रमे।।

उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका।
विश्वाची च घृताची च षडेवाप्सरसां वराः।।

तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्।।

`श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः।
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः।।

कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः।
गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः।।

एवंविधो मम पिता मेनका जननी वरा।'
सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः।।

परित्यज्य च मां याता परात्मजमिवासती।
`पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा।।

पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला।
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना।।

जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः।
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः।।

कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः।
स माऽरणिमिवादाय स्वमाश्रममुपागमत्।।

सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा।
तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी।।

विश्वामित्रसुता चाहं वर्धिता मुनिना नृप।
यौवने वर्तमानां च दृष्टवानसि मां नृप।।

आश्रमे पर्णशालायां कुमारीं विजने तदा।
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः।।

वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः।
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम्।।

गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः।
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः।।

स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता।
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः।।

स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम्।
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्'।।

किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव।
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया।।

कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्।
इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना।।

दुष्यन्त उवाच।

न पुत्रमभिजानामि त्वयि जातं शकुन्तले।
असत्वचना नार्यः कस्ते श्रद्धास्यते वचः।।

`अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्'।।

क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका।
क्व च त्वमेवं कृपणा तापसीवेषधारिणी।।

अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम्।
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः।।

सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि।।

सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि।
`सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः।।

सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः।
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि'।।

मेनका निरनुक्रोशा वर्धकी जननी तव।
यया हिमवतः पादे निर्माल्यवदुपेक्षिता।।

स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव।
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः।।

सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः।
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः।।

मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता।
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे।।

जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे।
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता।।

अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता।
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि।।

ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि।
`सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च।।

यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम्।
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः'।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टनवतितमोऽध्यायः।। 98 ।।