आदिपर्व

अध्यायः ९६

Adi Parva (Sanskrit) · Adhyaya 96
अक्षर का आकार

वैशंपायन उवाच।

तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्।
समयो यौवराज्याय इत्यनुध्याय स द्विजः।।

`शकुन्तलां समाहूय कण्वो वचनमब्रवीत्।

कण्व उवाच।

शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते।।

पतिव्रतानां नारीणां विशिष्टमिति चोच्यते।
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः।।

अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव।
एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च।।

तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम्।
तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह।।

स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते।
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया।।

दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि।
देवतानां गुरूणां च क्षत्रियाणां च भामिनि।।

भर्तॄणां च विशेषेम हितं संगमनं भवेत्।
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया।।

प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः।।

वैशंपायन उवाच।

एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत।
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम्।।

सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः।
तस्याग्रमहिषी चैषा तव माता शुचिव्रता।।

गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा।
गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि।।

स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव।
पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः।।

तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव।।

वैशंपायन उवाच।

अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत्।
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे।।

न चान्यं पितरं मन्ये त्वामृते तु महातपः।
तव शुश्रूषणं पुण्यमिह लोके परत्र च।।

शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः।
अहं सुश्रूषणपरः पादमूले वसामि वः।।

क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा।
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम्।।

एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः।
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला।।

स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता।
निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत्।।

श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले।
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत्।।

शकुन्तलोवाच।

एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः।
मया निवारितो नित्यं न करोषि वचो मम।।

निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै।
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम्।।

एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन।
रुषितो भगवांस्तात तस्मादावां विवासितौ।।

नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी।
पादमूले वसिष्यामि महर्षेर्भावितात्मनः।।

वैशंपायन उवाच।

एवमुक्त्वा तु रुदती पपात मुनिपादयोः।
एवं विलपतीं कण्वश्चानुनीय च हेतुभिः।
पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः।।

कण्व उवाच।

शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि।
पतिव्रताभावगुणान्हित्वा साध्यं न किंचन।।

प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः।
प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च।।

पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम्।
तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते।।

वैशंपायन उवाच।

शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत्।
दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः।।

शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ।
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम्।।

गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै।
शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव।।'

इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत्।
शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः।।

भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम्।
नारीणां चिरवासो हि बान्धवेषु न रोचते।।

कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम्।।

`वैशंपायन उवाच।

धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु।
काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला।।

कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत्।
तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत्।
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम्।।

एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः।
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः।।

शकुन्तला च पितरमभिवाद्य कृताञ्जलिः।
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत्।।

अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम्।
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान्।।

एवमुक्तो नतशिरा मुनिर्नोवाच किंचन।
मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत्।।

अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन्।
फलमूलाशिनो दान्तान्कृशान्धमनिसंततान्।।

व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान्।
समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत्।।

मया तु लालिता नित्यं मम पुत्री यशस्विनी।
वने जाता विवृद्धा च न च जानाति किंचन।।

आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम्।
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम्।।

प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः।
अध्युवास चिरं कालमुर्वश्या सहितः पुरा।।

अनूपजाङ्गलयुतं धनधान्यसमाकुलम्।
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे।।

तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः।
शाकमूलफलाहारा निवर्तध्वं तपोधनाः।
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः।।'

तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः।
`शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति।।

गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम्।
आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात्।।

शकुन्तलां समादाय मुनयो धर्मवत्सलाः।
ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च।।

कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च।
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः।।

शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः।
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम्।।

परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि।
शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम्।।

हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम्।
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम्।।

राजमार्गेण महता सुविभक्तेन शोभिताम्।
कैलासशिखराकारैर्गोपुरैः समलङ्कृताम्।।

द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम्।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम्।।

सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम्।
वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः।।

धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः।
कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा।।

वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः।
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः।।

एवंविधजनोपेतमिन्द्रलोकमिवापरम्।
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम्।।

इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः।
तस्य मध्ये सभा दिव्या नानारत्नविभूषिता।।

तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः।
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः।।

संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः।
कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः।।

सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः।
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन्।।

शकुन्तले निमित्तानि शोभनानि भवन्ति नः।
कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि।
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति।।

वैशंपायन उवाच।

वर्धमानपुरद्वारं तूर्यघोषनिनादितम्।
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः।।

प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः।
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः।।

इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः।।

ततो वै नागराः सर्वे समाहूय परस्परम्।
द्रष्टुकामा नृपसुतं समपद्यन्त भारत।।

नागरा ऊचुः।

देवतेव जनस्याग्रे भ्राजते श्रीरिवागता।
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता।।

इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन्।
अभिवादयन्तः सहिता महर्षीन्देववर्चसः।।

अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम्।
एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः।।

वैशंपायन उवाच।

इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम्।
हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम्।।

ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः।
कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम्।।

पिशाचा इव दृश्यन्ते नागराणां विरूपिणः।
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम्।।

क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः।
त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि।।

पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान्।
विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः।।

एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः।
अन्योन्यं ते समाहूय इदं वचनमब्रुवन्।।

उक्तं भगवता वाक्यं न कृतं सत्यवादिना।
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम्।।

किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम्।
त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम्।।

गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम्।
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम्।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षण्णवतितमोऽध्यायः।। 96 ।।