आदिपर्व
अध्यायः ९४
दुष्यन्त उवाच।
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते।।
सुवर्णमालां वासांसि कुण्डले परिहाटके।
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने।।
आहरामि तवाद्याहं निष्कादीन्यजिनानि च।
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने।।
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते।।
शकुन्तलोवाच।
फलाहारो गतो राजन्पिता मे इत आश्रमात्।
मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति।।
`पिता हि मे प्रभुर्नित्यं दैवतं परमं मम।
यस्मै मां दास्यति पिता स मे भर्ता भविष्यति।।
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति।।
समन्यमाना राजेन्द्र पितरं मे तपस्विनम्।
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे।।
दुष्यन्त उवाच।
मामैवं वद कल्याणि तपोराशिं दमात्मकम्।
शकुन्तलोवाच।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः।।
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान्।
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः।।
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत्।
क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान्।।
दुष्यन्त उवाच।
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते।'
इच्छामि त्वां वरारोहे भजमानामनिन्दिते।
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम।।
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः।।
अष्टावेव समासेन विवाहा धर्मतः स्मृताः।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः।।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः।
तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत्।।
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय।
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते।।
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः।
पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह।।
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन।
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता।।
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः।।
सा त्वं मम सकामस्य सकामा वरवर्णिनी।
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि।।
शकुन्तलोवाच।
यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो।।
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः।
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः।।
युवराजो महाराज सत्यमेतद्ब्रवीमि ते।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया।।
वैशंपायन उवाच।
`तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः।
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद।।
शकुन्तलोवाच।
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः।
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम्।।
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु।
सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः।।
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत्।
तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव।।
वैवाहिकानि चान्यानि समस्तानीह पार्थिव।
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात्।।
वैशंपायन उवाच।'
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते।।
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्।।
`पुरोहितं समाहूय वचनं युक्तमब्रवीत्।
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे।।
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः।
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु।।
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः।
शोभनं राजराजेति विधिना कृतवान्द्विजः।।
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः।'
जग्राह विधिवत्पाणावुवास च तया सह।।
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः।
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्।।
`त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह।
शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः।।
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह।
सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः।।
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति।
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते।।
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम्।
सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते।।
वैशंपायन उवाच।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्।
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत।।
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे।
शकुन्तला सा सुमुखी पपात नृपपादयोः।।
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः।
शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे।।'
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव।।
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति।
तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम्।
एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम्।।
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत्।
शकुन्तला च पितरं ह्रिया नोपजगाम तम्।।
`शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः।
ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत्।।
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः।
न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम्।।
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत।
तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ।।
अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता।
स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत।।
कण्व उवाच।
सव्रीडैव च दीर्घायुः पुरेव भविता न च।
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय।।
वैशंपायन उवाच।
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत्।
निधाय कामं तस्यर्षेः कन्दानि च फलानि च।।
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा।
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम्।।
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा।
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता।।
शकुन्तलोवाच।
राजा ताताजगामेह दुष्यन्त इलिलात्मजः।
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः।।
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः।
अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि।।
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि।
वैशंपायन उवाच।
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः।।
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः।
उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः।।
कण्व उवाच।
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा।
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्'।।
पुंसा सह समायोगो न स धर्मोपघातकः।
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम्।।
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते।
सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते।।
`किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि।'
धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः।।
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले।
महात्मा जनिता लोके पुत्रस्तव महायशाः।।
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम्।
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः।।
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः।
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि।।
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते।
सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे।
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम्।।
शकुन्तलोवाच।
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः।
मम चैव पतिर्दृष्टो देवतानां समक्षतः।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि।।
वैशंपायन उवाच।
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी।
ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा।।
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया।
`एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः।।
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम्।।
कण्व उवाच।
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः।
पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय।।
वैशंपायन उवाच।
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत्।
स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा।।'
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्नवतितमोऽध्यायः।। 94 ।।