आदिपर्व

अध्यायः ७७

Adi Parva (Sanskrit) · Adhyaya 77
अक्षर का आकार

वैशंपायन उवाच।

`तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह।।

प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः।
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत्।।

पर्जन्य इव सस्यानां देवानाममृतं यथा।
तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी।
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत्।।'

श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत।।

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्।

देवयान्वुवाच।

किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया।।

शर्मिष्ठोवाच।

ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः।
स मया वरदः कामं याचितो धर्मसंहितम्।।

`अपत्यार्थे स तु मया वृतो वै चारुहासिनि'।
नाहमन्यायतः काममाचरामि शुचिस्मिते।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते।।

देवयान्युवाच।

शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्।।

शर्मिष्ठोवाच।

तपसा तेजसा चैव दीप्यमानं यथा रविम्।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते।।

देवयान्युवाच।

यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्।।

वैशंपायन उवाच।

अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी।।

ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ।।

`तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः।
माध्वीकरससंयुक्तां मदिरां मदवर्धनीम्।।

पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम्।
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा।।

रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः।
बहु प्रलपती देवी राजानमिदमब्रवीत्।।

राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः।
केन कार्येण संप्राप्तो निर्जनं गहनं वनम्।।

द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज।।

इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः।
भर्त्सयामास वचनैरनर्हां पापवर्धनीम्।।

ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान्।
रक्षणे देवयान्याः स पोषणे च शशास तान्।।

ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान्।
रेमे च सुचिरं कालं तया शर्मिष्ठया सह।।'

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्।।

ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता।
ययातिसहिता राजञ्जगाम रहितं वनम्।।

ददर्श च तदा तत्र कुमारान्देवरूपिणः।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्।।

देवयान्युवाच।

`कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव।।

वैशंपायन उवाच।

एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत।।

तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत्।
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम्।।

कुमारा ऊचुः।

ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता।
शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः।।'

देवयान्युवाच।

किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता।
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते।।

प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम्।
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया।।

तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः।।

वैशंपायन उवाच।

इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके।।

रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः।
`अविब्रुवन्ती किंचिच्च राजानं चारुलोचना।।

नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी।
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः।।

प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः।
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति।।

बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत्।
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः।।

ययातिमेवं राजानं त्वं गोपायसि भामिनि।
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम्।।

मदधीना सती कस्मादकार्षीर्विप्रियं मम।
तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे।।'

शर्मिष्ठोवाच।

यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते।।

यदा त्वया वृतो भर्ता वृत एव तदा मया।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने।।

पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि।
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्।।

`त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे।
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम्।।

वैशंपायन उवाच।

श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्।
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह।।

राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया।
इति जज्वाल कोपेन देवयानी ततो भृशम्।।

निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च।
अपविध्य च सर्वाणि भूषणान्यसितेक्षणा।।'

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा।।

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः।
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना।।

अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम्।।

सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता।
अनन्तरं यायातिस्तु पूजयामास भार्गवम्।।

देवयान्युवाच।

अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः।।

त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते।।

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।।

शुक्र उवाच।

धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया।।

ययातिरुवाच।

ऋतुं वै याचमानाया भगवन्नान्यचेतसा।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया।।

ऋतुं वै याचमानाया न ददाति पुमानृतुम्।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः।।

अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः।।

`यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम्।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति'।।

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह।
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्।
`मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम्।।'

शुक्र उवाच।

नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष।।

वैशंपायन उवाच।

क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत।।

ययातिरुवाच।

अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम्।।

शुक्र उवाच।

नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि।।

ययातिरुवाच।

राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्।।

शुक्र उवाच।

संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज।
मामनुध्याय भावेन न च पापमवाप्स्यसि।।

वयो दास्यति ते पुत्रो यः स राजा भविष्यति।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि सप्तसप्ततितमोऽध्यायः।। 77 ।।