आदिपर्व
अध्यायः ६५
जनमेजय उवाच।
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः।
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः।। 1 ।।
यदर्थमिह संभूता देवकल्पा महारथाः।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि।।
वैशम्पायन उवाच।
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे।।
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे।।
तदा निःक्षत्रिये लोके भार्गवेण कृते सति।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः।।
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा।।
तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्।।
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः।।
जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम्।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः।।
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि।।
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ।
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः।।
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः।।
अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम्।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्।।
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्।।
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः।
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन्।।
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः।
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः।।
न बाल एव म्रियते तदा कश्चिज्जनाधिप।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम्।।
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ।
इयं सागरपर्यन्ता ससापूर्यत मेदिनी।।
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा।।
न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप।
न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत।।
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्।।
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा।।
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः।।
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्।।
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च।।
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्।।
एवं समुदिते लोके मानुषे भरतर्षभ।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर।।
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि।
ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह।।
इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो।।
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च।।
जातैरिह महीपाल जायमानैश्च तैर्मही।
न शशाकात्मनात्मानमियं धारयितुं धरा।।
अथ जाता महीपालाः केचिद्बहुमदान्विताः।
दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः।।
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्।
इमां सागरपर्यन्तां परीयुररिमर्दनाः।।
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्।
अन्यानि चैव सत्वानि पीडयामासुरोजसा।।
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः।।
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च।।
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे।।
न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम्।
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात्।।
ततो मही महीपाल भारार्ता भयपीडिता।
जगाम शरणं देवं सर्वभूतपितामहम्।।
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्।।
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः।
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा।।
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी।
सन्निधौ लोकपालानां सर्वेषामेव भारत।।
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः।।
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत।
ससुरासुरलोकानामशेषेण मनोगतम्।।
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः।
प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः।।
ब्रह्मोवाच।
यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः।।
`उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत्।'
वैशंपायन उवाच।
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्।।
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्।।
तथैव च समानीय गन्धर्वाप्सरसां गणान्।
उवाच भगवान्सर्वानिदं वचनमर्थवत्।।
ब्रह्मोवाच।
स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च।
वैशम्पायन उवाच।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा।।
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः।।
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः।
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः।।
प्रजापतिपतिर्देवः सुरनाथो महाबलः।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः।।
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
अंशावतरणपर्वणि पञ्चषष्टितमोऽध्यायः।। 65 ।।
।। समाप्तमंशावतरणपर्व ।।