आदिपर्व

अध्यायः ६४

Adi Parva (Sanskrit) · Adhyaya 64
अक्षर का आकार

वैशंपायन उवाच।

राजोपरिचरो नाम धर्मनित्यो महीपतिः।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः।।

स चेदिविषयं रम्यं वसुः पौरवनन्दनः।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः।।

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे।।

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्।।

देवा ऊचुः।

न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्।।

इन्द्र उवाच।

`देवानहं पालयिता पालय त्वं हि मानुषान्।'
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्।।

दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः।
ऊधः पृथिव्या यो देशस्तमावस नराधिप।।

पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः।।

अर्थवानेष देशो हि धनरत्नादिभिर्युतः।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप।।

धर्मशीला जनपदाः सुसंतोषाश्च साधवः।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा।।

न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च।।

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्।।

दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते।।

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव।।

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्।।

लक्षणं चैतदेवेह भविता ते नराधिप।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्।।

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्।।

`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्।
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्।।

ततस्तु राजा चेदीनामिन्द्राभरणभूषितः।
इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्।।'

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा।
प्रवेशं कारयामास सर्वोत्सववरं तदा।।

`मार्गशीर्षे महाराज पूर्वपक्षे महामखम्।
ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः।।'

प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः।
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः।।

अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः।
`माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्।।

उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये।
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्।।

वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः।
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा।।

शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा'।
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः।।

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः।
`माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह।।

नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः।
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा।।

दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः।।

रमन्ते नागराः सर्वे तथा जानपदैः सह।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः।।

प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्।
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः।।

महारजनवासांसि वसित्वा चेदिराट् तदा।
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा।।

एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः।।'
यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः।।'

एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम्।
`हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।।

आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः।'
वसुना राजमुख्येन समागम्याब्रवीद्वचः।।

ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।।

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति।
तथा स्फीतो जनपदो मुदितश्च भविष्यति।।

`निरीतिकानि सस्यानि भवन्ति बहुधा नृप।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन।।

वैशंपायन उवाच।'

एवं महात्मना तेन महेन्द्रेण नराधिप।
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्।।

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः।
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च।।

संपूजितो मघवता वसुश्चेदीश्वरो नृपः।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्।।

इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः।।

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्।
महारथो मागधानां विश्रुतो यो बृहद्रथः।।

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्।
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः।।

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च।।

वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्।।

उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्।।

पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल।।

गिरिं कोलाहलं तं तु पदा वसुरताडयत्।
निश्चक्राम ततस्तेन प्रहारविवरेण सा।।

तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्।।

`महिषी भविता कन्या पुमान्सेनापतिर्भवेत्।
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः'।।

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः।।

चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्।।

ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः।
तदहः पितरश्चैनपूचुर्जहि मृगानिति।।

तं राजसत्तमं प्रीतास्तदा मतिमतां वरः।
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः।।

चकार मृगयां कामी गिरिकामेव संस्मरन्।
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्।।

अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः।।

पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्।।

कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्।
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम्।।

मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया।।

पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम्।
अशोकस्तबकैश्छन्नं रमणीयमपश्यत।।

अधस्यात्तस्य छायायां सुखासीनो नराधिपः।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम्।।

वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्।
`भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत।'
तस्य रेतः प्रचस्कन्द चरतो गहने वने।।

स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत।।

`अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः।
अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत्।।'

इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः।।

संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः।।

शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्।।

सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय।।

गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै।

वैशंपायन उवाच।

गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्।।

जवं परममास्थाय प्रदुद्राव विहंगमः।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः।।

अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः।।

युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा।।

मीनभावमनुप्राप्ता बभूव यमुनाचरी।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्।।

जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः।।

मासे च दशमे प्राप्ते तदा भरतसत्तम।।
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ।।

आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति।।

तयोः पुमांसं जग्राह राजोपरिचरस्तदा।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः।।

साऽप्सरा मुक्तशापा च क्षणेन समपद्यत।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा।।

मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि।
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः।।

संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः।।

सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति।।

रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्।।

आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्।।

तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः।
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम्।।

दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः।।

संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः।
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि।।

मत्स्यगन्धोवाच।

अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया।
सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज।।

पराशर उवाच।

शोभनं वासवि शुभे किं चिरायसि वाह्यताम्।
कलशं भविता भद्रे सहस्रार्धेन संमितम्।।

अहं शेषो भिविष्यामि नीयतामचिरेण वै।

वैशंपायन उवाच।

मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले।।

वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा।
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः।।

जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम्।

पराशर उवाच।

दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः।।

प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु।
बर्हिषद इति ख्याताः पितरः सोमपास्तुते।।

तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता।
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्।।

त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती।।

सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्।
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्।।

अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्।
सा तेन व्यभिचारेण मनसा कामचारिणी।।

पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात्।।

त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्।।

तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी।
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि।।

ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा।
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्।।

भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते।
यैरारभन्ते कर्माणि शरीरैरिह देवताः।।

तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः।
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः।।

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम्।।

पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता।
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि।।

अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि।।

यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्।।

ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम्।
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि।।

व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि।।

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा।
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा।।

अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा।
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम्।।

तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्।।

संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत।।

वैशंपायन उवाच।

विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्।।

आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः।।

येन देशः स सर्वस्तु तमोभूत इवाभवत्।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा।।

विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी।

सत्यवत्युवाच।

विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्।।

त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम।।

गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्।।

वैशंपायन उवाच।

एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति।।

वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते।।

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्।
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः।।

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा।।

तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि।।

तस्या योजनगन्धेति ततो नामापरं स्मृतम्।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्।।

पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्।।

स मातरमनुज्ञाप्य तपस्येव मनो दधे।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्।।

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः।।

पादापसारिणं धर्मं स तु विद्वान्युगे युगे।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच।।

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः।।

वेदानध्यापयामास महाभारतपञ्चमान्।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्।।

प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः।।

[ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते।
वीरासनमुपास्थाय योगी ध्यानपरोऽभवत्।।

श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे।
तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा।।

दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः।
स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत्।।

शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः।
श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः।।

धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः।
दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम्।।

स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः।
धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते।।

तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते।
अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते।।

तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत्।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः।।

विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः।
त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः।।

पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः।
सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा।।

वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम्।
अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम्।।

न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम्।
पिता पितामहो भ्राता माता मातुल एव च।।

उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः।
एतैर्दत्तां निषेवेत नादत्तामाददीत च।।

इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः।
अस्या नास्ति पिता भ्राता माता मातुल एव च।।

गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया।
क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि।।

यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः।
क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः।।

वैशंपायन उवाच।

एवं चिन्तयतो भावं महर्षेर्भावितात्मनः।
ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा।।

तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान्।
पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत।।

पितृगणा ऊचुः।

अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम्।
यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम्।।

पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत।
महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम्।।

पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत्।
एवं संभाषमाणे तु वसिष्ठे पितृभिः सह।।

ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः।
विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः।।

अरुन्धती महाभागा अदृश्यन्त्या सहैव सा।
विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा।।

वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम्।
अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना।।

भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत्।
आपूर्यमाणपक्षे तु वैशाखे सोमदैवते।।

शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते।
विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह।।

यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः।
स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च।।

अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः।
जलपूर्णघटैश्चैव सर्वतः परिशोभितम्।।

तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा।
सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि।।

कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम्।
वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः।।

गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे।
अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः।।

स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम्।
वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च।।

उवाच वचनं काले कालज्ञः सर्वधर्मवित्।
प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा।।

यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम्।

वैशंपायन उवाच।

तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः।।

श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः।
वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन्।।

मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः।
पराशराय मुनये दातुमर्हसि धर्मतः।।

वसुरुवाच।

सत्यं मम सुता सा हि दाशराजेन वर्धिता।
अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम्।।

पितर ऊचुः।

निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः।
कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते।।

कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम्।
इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः।।

इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः।
दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते।।

दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते।
तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते।।

सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै।
इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा।।

वैशंपायन उवाच।

याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत।
वसुं चापि समाहूय वसिष्ठो मुनिभिः सह।।

विवाहं कारयामास विधिदृष्टेन कर्मणा।

वसुरुवाच।

पराशर महाप्राज्ञ तव दास्याम्यहं सुताम्।।

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना।

वैशंपायन उवाच।

वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः।।

कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत्।
प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम्।।

त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम्।
महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच।।

लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत्।
पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा।।

हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति।
एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः।।

पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्।।

जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा।
स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः।।

स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम्।
गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः।।

ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा।
अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना।।

स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत्।
मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः।।

अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते।

वैशंपायन उवाच।

व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा।।

मनुष्यभावात्सा योषित्पपात मुनिपादयोः।
महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित्।।

मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः।
दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ।।

धारणाद्दुःखसहनात्तयोर्माता गरीयसी।
बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम्।।

जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे।
मृगीणां पक्षिणां चैव अप्सराणां तथैव च।।

शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः।
ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा।।

अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ।
सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ।।

स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा।
एवमेव च देवानामृषीमां चैव संभवः।।

लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा।
वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा।।

धर्मनेता महर्षीणां मनुष्याणां त्वमेव च।
तस्मात्पुत्र न दूष्येत वासवी योगचारिणी।।

मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि।
प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः।।

तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन।

वैशंपायन उवाच।

गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा।।

चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत्।
पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि।।

व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत्।
स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि।।

वासव्युवाच।

पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम्।
दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः।।

महता तपसा तात महायोगबलेन च।
मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः।।

तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम्।

वैशंपायन उवाच।

एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत्।।

त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः।
एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे।।

स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्।
स मातरमनुज्ञाप्य तपस्येव मनो दधे।।

ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति।
पराशरोऽपि भगवान्पुत्रेण सहितो ययौ।।

गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः।
जातकर्मादिसंस्कारं कारयामास धर्मतः।।

कृतोपनयनो व्यासो याज्ञवल्क्येन भारत।
वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया।।

गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे।
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।।

द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत्।
पादापसारिणं धर्मं विद्वान्स तु युगे युगे।।

आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च।
ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया।।

विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः।
ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः।।

सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्।
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च।।

वेदानध्यापयामास महाभारतपञ्चमान्।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता।।

ततः सत्यवती हृष्टा जगाम स्वं निवेशनम्।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि।।

दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत्।

दाशराज उवाच।

त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता।।

अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता

सत्यवत्युवाच।

शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः।।

नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम्।
उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ।।

ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन्।
एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि।।

दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च।
एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम्।
इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च।।

तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः।
वसुवीर्यात्समभवन्महावीर्यो महायशाः।।

वैदार्थविच्च भगवानृषिर्विप्रो महायशाः।
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया।।

अणीमाण्डव्य इत्येवं विख्यातः स महायशाः।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्।।

इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे।।

तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः।।

तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि।

वैशंपायन उवाच।

तेन शापेन धर्मोऽपि शूद्रयोनावजायत।।

विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्।।

सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः।
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः।।

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः।।

अनादिनिधनो देवः स कर्ता जगतः प्रभुः।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्।।

आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्।।

अनन्तमचलं देवं हंसं नारायणं प्रभुम्।
धातारमजमव्यक्तं यमाहुः परमव्ययम्।।

कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः।।

धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ।।

सात्यकिः कृतवर्मा च नारायणमनुव्रतौ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ।।

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत।
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत।।

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः।।

अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः।।

वैताने कर्मणि तते पावकात्समजायत।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्।।

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्।।

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्।।

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ।।

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः।।

धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि।।

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः।।

धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः।।

जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ।।

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा।।

ततो दुःशासनश्चैव दुःसहश्चापि भारत।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः।।

जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः।।

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः।।

पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः।।

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः।।

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः।।

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता।
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया।।

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे।।

तेषामपरिमेयानां नामधेयानि सर्वशः।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।