आदिपर्व

अध्यायः ५२

Adi Parva (Sanskrit) · Adhyaya 52
अक्षर का आकार

सौतिरुवाच।

ततः कर्म प्रववृते सर्पसत्रविधानतः।
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः।।

प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्।।

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा।।

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्।।

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे।।

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ।।

क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर।।

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च।
अवशानि विनष्टानि पन्नगानां तु तत्र वै।।

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे।
मत्ता इव च मातङ्गा महाकाया महाबलाः।।

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः।
घोराश्च परिघप्रख्या दन्दशूका महाबलाः।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः।।

।। इति श्रीमन्माहाभारते आदिपर्वणि
आस्तीकपर्वणि द्विपञ्चाशत्तमोऽध्यायः।। 52 ।।