आदिपर्व

अध्यायः ५१

Adi Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

सौतिरुवाच।

एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः।।

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः।।

अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्।।

प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे।
अपि तत्कर्म विदितं भवतां येन पन्नगम्।।

तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।।
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्।।

ऋत्विज ऊचुः।

अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते।।

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः।।

एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम।।

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे।।

सौतिरुवाच।

ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम।
तं देशं मापयामासुर्यज्ञायतनकारणात्।।

यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्।।

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्।।

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति।।

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्।।

स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा।।

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः।।

एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः।। 51 ।।